उदाहरणम्-- यन्त्राध्यायः पञ्चशक्राङ्गुला १४५ यष्टिरष्टषष्टिदृ गुच्छ्रयः । षट् करास्तलवेधो दोः कोटिः सप्तदशाङ्गुला ।। अग्रवेधे रसेशा ११६ दोः कोटिस्तुरगकुञ्जराः ८७ । वंशस्य यस्य तन्मानं च |त्मवंशान्तरं वद ॥ वा० भा० -- यष्टि: १४५ | दुगुच्छ्राय: ६८ | तलवेधेबाहुः ११४४ । कोटि: १७ । .अग्रवेधे बाहुः ११६ । कोटि: ८७ । अत्र तलवेघेऽग्रवेधे वा ध्रुववद्यष्टयग्रमूललम्बयोरन्तरभूर्भुजः । एवं यथोक्तकरणेन लब्धमात्मवंशान्तरम् ५७६ | वंशौच्च्यम् ५०० । अत्रोपपत्तिः— आत्मवंशान्तरभूमिर्भुजः । दृष्ट्युच्छ्राय: कोटि: । दृष्टिवंशमूलयोबंद्धं सूत्रं कर्णः । एतत्त्र्यस्त्रानुसारमेव यष्ट्या वेधेन त्र्यत्रमुत्पद्यते । तच्च लम्बान्तरभूर्भुजः | लम्बोच्च्यान्तरं कोटिः । यष्टिः कर्णंः । अतोऽनेनानुपात: । यद्यनया कोट्यायं भुजो लभ्यते तदा दृगुच्छ्रायकोट्या क इति । फलमात्मवंशान्तरभूमिः । एवमप्रवेधेऽपि । एवं वंशमूलादुपरि दृष्ट्युच्छ्रायमितेऽन्तरे चिह्नं कल्प्यम् । तद्द्दृष्ट्योरन्तरे रेखा भूमानमिता स भुजः | चिह्नोपरिस्थं वंशखण्डं कोटि: । दृष्टिवंशाग्रयोर्बद्धं सूत्रं कर्ण: । एतत्र्यस्त्रानुसारमेव वेधत्यस्त्रं भवत्यतोऽनुपात: । यदि वेधभुजेन वेधकोटिर्लंभ्यते तदा भूमितेन भुजेन केति । फलं चिह्नोपरितवंशखण्डम् । तद्दृष्ट्युच्छ्रायेण तं सकलवेणुप्रमाणम् ॥ ४२३ -४४३ । वा० वा० – अथ वंशमूलवेवेन | स्ववंशमध्यभूज्ञानार्थमाह विद्ध्वैवमिति | अत्रात्मवंशान्तरं भुजः गुच्छ्रायं कोटि: । वंशमूलगामिक्सूत्रं कर्णः । तेनोक्तं दृष्ट्युच्छ्रायाहताद्बाहोरिति । अथ केवलाप्रवेघेनाह ४७३ अथ वंशाग्रवेधेन वंशोच्च्यज्ञानमाह - विद्ध्वाथो वंशाग्रमिति । अत्र वंशाग्र- गामिक्सूत्रं कर्णः । वंशदृष्टयोरन्तरं भुजः । हगुच्छ्रायादुपरिवंशखण्डं कोटि: । अत उक्तं भूमानं कोटिसंगुणमित्यादि । सम्पूर्णो वंशोच्छ्रायो ज्ञातव्य इति दृष्ट्युच्छ्रा- येण संयुत इत्युक्तम् । अमुमर्थं शिष्येभ्यः स्पष्टयितुमुदाहरणं दर्शयति- पञ्चशक्राङ्गुला यष्टि- रिति ॥ ४२१-४४१ । अग्रं विध्वोर्ध्वस्थः पुनरुपविष्टश्च तद्विद्ध्येत् ॥ ४५ ॥ निजभुजभक्त कोटी तदन्तरह तो दृगौच्च्यविश्लेषः । भूमिवँशौच्च्यमतः पृथक् पृथक् पूर्ववज्ज्ञेयम् ।। ४६ । अत्र प्रश्न: - ऊर्ध्वस्थस्य गृहादिभिर्व्यवहितस्याप्यग्र मात्र सखे वंशस्य प्रगुणस्य यस्य सुसमे देशे समालोक्यते । सि० - ६०
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५१५
दिखावट