४२८ सिद्धान्तशिरोमणी गोलाध्याये गुणहारकबिम्बार्धत्रिज्यानाशे कृते सति । भोग्यखण्डं जिनांशज्यागुणं तत्त्वाश्विभाजितम् ।। ७२ । सत्रिभार्कात् क्रमक्रान्तेस्तत् तुल्यं जायतेऽथवा । क्रमक्रान्तेरिदं वीक्ष्य भ्रान्ति त्यजत बालिशाः ॥ ७३ । नामितं छत्रवद्विम्बं तिर्थक् क्रान्तिस्तु सा समा । अत्र धुज्यानुपातो यस्तत्तिर्यकरणाय सः ॥ ७४ । वा० भा० - अथ वलनेषु दुक्कर्माणि चोत्क्रमज्यानिराकरणाय मूलसूत्रेऽपि बहूक्तं तथापि किंचिदिहोच्यते । विषुववृत्तं समवृत्तं प्रकल्प्य दक्षिणोत्तरवृत्तस्थे ग्रह आयनवलनस्योपपत्तिप्रती- त्यथं पृथग्दर्शयेत् । अपमण्डल प्राच्यपराया एकः कदम्बो याम्यान्य: सौम्या दिक् । एवं विषुवद्- वृत्तप्राच्यपराया ध्रुवौ । यदा मकरादिर्याम्योत्तरवृत्ते तदैव कदम्बोऽपि । अतो विषुवत्क्रान्तिवृत्त- योरेकैव याम्योदक् । तथा दक्षिणोत्तरवृत्तस्य कुम्भादेश्च मध्ये स्वाहोरात्रवृत्ते पञ्चगुणाङ्कचन्द्रा १९३५ असवो वर्तन्ते । ते षष्ट्युद्धृताः कालांशाः स्युः ३२|१५ | अथ कुम्भादिर्यावद्दक्षिणोत्तरवृत्तं नीयते तावत् कदम्बो निजमण्डले चक्रांशाङ्किते तार्वाद्भरेव कालांशैः ३२।१५ दक्षिणोत्तरवृत्तसंपातात् प्रत्यगवलम्बते । कदम्बयाम्योत्तरसूत्र- योरन्तरं वलनम् । सा च तेषामंशानां कदम्बवृत्ते ज्या | अतः क्रमज्या | उत्क्रमज्या तु बाणरूपा भवति । कदम्बवृत्ते या ज्या सा क्रान्तिज्या । अतस्तेषामंशानां क्रमक्रान्तिज्या वलनम् | अथवैकराशेः क्रमक्रान्तिज्या त्रिज्यागुणा युज्याहृता तथापि सैव भवति । अथवान्यप्रकारेणोत्क्रमज्यानिराकरणं युज्यांनुपातश्च प्रतिपाद्यते । क्रान्तिवृत्तेऽर्कस्थानेऽकं- बिम्ब मुद्रिकाकारं विन्यस्य बिम्बपरिधो यत्र स्वाहोरात्रवृत्तं लग्नं यत्र च क्रान्ति- वृत्तं तयोरन्तरं यद्दक्षिणोत्तरं तत् तत्र बिम्बे प्राच्यपरयोर्बलनम्। तच्चाकंक्रान्तबिम्बाधंकला- युतस्याकंस्य क्रान्तेश्चान्तरम् । अतस्तस्थानयनम् । रविदोर्ज्यायां क्रियमाणायां योग्यखण्ड तेन मानार्धकला गुण्याः शरद्विदस्त्रेः २२५ भाज्या: । फलं दोर्ज्यंयोरन्तरं स्यात् । तत्र तावत् स्फुटभोग्यण्डज्ञानायानुपात: 1- यवि त्रिज्यातुल्यायां कोटौ प्रथमं ज्याधं शरद्विदत्रा भोग्यखण्डं तदाभिमतायामस्यां किमिति । फलं स्फुटं भोग्यखण्डम् । तेन गुणितं बिम्बाधं शरद्वदर्भाज्यम् । एवं स्थिते शरद्विदत्रमितयोर्गुणहरयोर्नाशे कृते बिम्बाधंस्य कोटिज्या गुणस्त्रिज्या हरः । फलं वोज्यंयोरन्तरम् । ततः क्रान्त्यर्थमनुपात: । यदि त्रिज्यया जिनज्या लभ्यते तदानेन दोर्ज्यान्तरेण किमिति । फलं क्रान्त्यन्तरम् | तबिम्बव्यासाघंवृत्ते वलनम् । अथान्योऽनुपातः । यदि बिम्बव्यासार्धवृत्त एतावद्वलनं तदा त्रिज्याव्यासाघवृत्ते किमिति । अत्र त्रिज्यातुल्ययोर्गुणहरयोस्तथा बिम्बार्धमितयोश्च तुल्यत्वान्नाशे कृते कोटिज्याया जिनांशज्या गुण- स्त्रिज्याहरः | फलं कोटिक्रमक्रान्तिज्या । तत् त्रिज्यावृत्ते वलनम् । एवं ग्रहे । यतो भूमध्यात् खस्वस्तिकस्थबिम्बमध्यं प्रति यत् सूत्रं नीयते तत् त्रिज्यासूत्रं दण्डवत् । तदुपरिस्थं बिम्बं छत्रवत् समन्तात् सममेव । यत् तत्परितस्त्रिज्यावृत्तं यत्र च वलनज्या देया
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४७०
दिखावट