ग्रहणवासनां ४२९ तवपि भूसममेव स्थितम् । अतस्तत्र यथागतमेव वलनम् । यदा किल मेषान्ते ग्रहस्तदा तत्क्रान्त्या खस्वस्तिका दुत्तरे नतं बिम्बं स्यात् । त्रिज्यासूत्रं तदा कर्णरूपम् | बिम्बमध्याच्च लम्बसूत्रं ध्रुवयष्टयन्तं युज्या | सा तत्र कोटि: । क्रान्तिज्या भुजः । यथा किंचित् कर्णस्थित्या घृते दण्डे छत्रमपि तत्स्पधिन्यां दिशि कर्णरूपं भवति । तत्र वलनज्ययापि कर्णरूपिण्या भवितव्यम् । यत् पूर्वमानीतं क्रान्त्यन्तरं लम्बसूत्र प्रतिस्पधि तत् कोटिरूपं जातम् । तस्य कर्णकरणायानुपातः । यदि द्यज्याकोटचा त्रिज्या कर्णस्तदानया किमिति । पूर्व कोटिज्याया जिनज्या गुणस्त्रिज्या हरः । इदानों त्रिज्या गुणो धुज्या हरः । अत्रापि त्रिज्यातुल्ययोर्गुणहरयोनशे कृते कोटिज्या जिनज्या- गुणा युज्यया भक्ता वलनं स्यादित्युपपन्नम् । युक्त्यानयेव विज्ञेयमक्षजं च क्रमज्ययेति । यथायनवलनज्ञानार्थं ध्रु वात् परितो जिन- भाग: कदम्बभ्रमवृत्तं निबद्धं तथा याम्योत्तरक्षितिजयोः संपातः स समसंज्ञकः । तस्मादप्यक्षांश: परितोऽक्षवलनज्ञानार्थं वृत्तंबीयात् । तत् किलाक्षवलयसंज्ञम् । तदपि भांशेरङ्कघम् । तत्रा- क्षवलनोपपत्तिदंशनीया । तद्यथा | मध्याह्न कत् समचिह्नं प्रति नोयमानं वृत्ताकारं सूत्रं ध्रुव- चिह्नलग्नं याति । अतस्तत्र विषुवत्समवृत्तयोरेकैव याम्योत्तरा | वलनाभाव इत्यर्थः । अथ यदि दिनार्थान्नतं सूर्यं कृत्वा समचिन्हात् सूर्यं प्रति नीयमानं सूत्रं यत्र सममण्डले लगति तत्वस्वस्तिकयोर्मध्ये यावन्तोंऽशास्तावन्त एवाक्षवृत्ते समसूत्रध्रुवयोमंध्ये भवन्ति । यतस्तत्समवृत्तानुकारं बद्धम् । तेषां भागानामक्षवलये यावती क्रमज्या तावदेव समसूत्रध्रुव- योरन्तरम् । अथ क्षितिजस्थेऽकें क्षितिजमेव समसूत्रम् । तत्राक्षवृत्ते समवृत्ते च नवतिनंतांशाः | तेषां ज्याक्षवलयेऽक्षज्यातुल्या स्यात् । अतः सममण्डलगतैर्नतांशवंलनं साधयितुं युज्यते । ते तु महायासेन ज्ञायन्ते । न तु सुखेन । अतस्तज्ज्ञानार्थं स्थूलोऽनुपातः सुखार्थं कृतः । यदि दिनाधं- तुल्येन स्वाहोरात्रनतेन नवतिः सममण्डलनतांशा लभ्यन्ते तदेष्टेन किमिति । लब्धनतांशानां या क्रमज्या साक्षज्यावृत्ते परिणाम्यते । यदि त्रिज्यावृत्त एतावती ज्या तदाक्षज्यावृत्ते कियतीति । लब्धं किल वलनज्या स्यात् । परं सा चुज्याग्रे न त्रिज्याग्रे । यतः समसूत्रध्रु वयोरन्तरं तत् । ग्रहध्रुवयोमंध्ये धुज्याचापांशा एव वर्तन्ते । यदि छुज्यावृत्त एतावती तदा त्रिज्यावृत्ते कियतीति । एवं सति पूर्वत्रेराशिके त्रिज्या हरः । इदानीं गुण: । तुल्यत्वात् तयोर्नाशे कृते नतांशज्याया अक्षज्या गुणो युज्या हरः । फलं स्थूला वलनज्या स्यात् । अथ सूक्ष्माप्युच्यते । ग्रहणकालेऽस्य शङ्क: शङ्कतलमग्रा च साध्या | अप्राशङ्कतलयोः समदिशोरैक्यमन्यथान्तरं स किल बाहु: पूर्व प्रतिपादित एव । ग्रहसमवृत्तयोरन्तरं ज्यारूपं दक्षिणोत्तरं बाहुतुल्यं स्यात् । तथा विषुववृत्तादुत्तरतो दक्षिणतो वा क्रान्तिज्यान्तरे युज्यावृत्तं तथा समवृत्तादपि बाहुवशादुत्तरतो दक्षिणतो वा बाहुतुल्येऽन्तर उपवृत्तं कल्प्यम् । तदपि भांशै- रङ्कघम् । बाहुवर्गोनत्रि ज्यावर्गस्य पदं तस्मिन् वृत्ते हुज्यावद्वयासार्धम् । अथ चुज्यावृत्तोपवृत्तयोर्यो प्राक्पश्चात्संपातौ तयोर्जीवावद्यत् सूत्रं निबध्यते तस्यार्धमुपवृत्ते नतांशानां ज्या | सेवाहोरात्रवृत्त - नतांशानां भुजज्या । अथ तदानयनम् । नतासूनां या भुजजीवा सा धुज्यावृत्ते परिणाम्यते । यवि त्रिज्यावृत एतावती तदा द्य ज्यावृत्ते कियतीति । एवमुपवृत्तनतांशज्या भवति । ततो यधुप-
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४७१
दिखावट