त्रिप्रश्नवासना ४१३ इति । छायायाः क्षेत्रात्मकत्वात् सावनाभिरेव साध्या । अयमथंस्त्रिप्रश्ने व्याख्यात एव । एतत्सावन घटिकाप्रसङ्गाल्लग्नार्थमपि सावना अङ्गीकृता इत्यर्थः ॥ २७ । वा० वा० - तात्कालिकार्ककरणकारणमाह - लग्नार्थमिति ॥ २७ ॥ इदानीं देशविशेषेण राशीन् सदोदिताननुदितांश्चाह- त्र्यंशयुङ्नवरसाः ६६ पलांशका यत्र तत्र विषये कदाचन । दृश्यते न मकरो न कार्मुकं किंच कर्किमिथुनौ सदोदितौ ॥ २८ ॥ यत्र साङ्घ्रि गजवाजिसंमितास्तत्र वृश्चिकचतुष्टयं न च । दृश्यतेऽथ वृषभाच्चतुष्टयं सर्वदा समुदितं च लक्ष्यते ।। २९ । यत्र तेऽथ नवतिः पलांशकास्तत्र काञ्चनगिरौ कदाचन । दृश्यते न भदलं तुलादिकं सर्वदा समुदितं क्रियादिकम् ।। ३० । वा० भा० - अयमथंस्त्रि प्रश्ने ( लम्बाधिका क्रान्तिरुदफ् च यावत् तावद्दिनं सन्ततमेव तत्रेत्यादिना ) सम्यक् कथित एव । यत्र वृश्चिकान्तक्रान्तितुल्यो लम्बस्तत्रैव पलांशाः ६९ । २० । तत्र धनुमंकरी क्षितिजादधः स्थितावेव भ्रमतः । ककिमिथुनौ तूपर्येव । यत्र तुलान्तक्रान्तितु- ल्यो लम्बस्तत्राष्टसप्ततिः सप्तदशकलाधिका ७८ | १७ पलांशास्तत्र वृश्चिकादिचतुष्टयं क्षितिजादधो वृषभादिकमुपरि । एवं मेरौ नवतिः ९० पलांशास्तत्र तुलाविषद्कमधो मेषादिकमुपरीति सर्वं भगोले भ्रमिते सति दृश्यते ॥ २८-३० ॥ वा० वा०——यत्र कर्कमिथुनस्थितार्को दृश्यते सततं मकरकार्मुकस्थार्कः कदापि न दृश्यते तं देशमाह - त्र्यंशयुगिति । एवं राशिचतुष्टयस्थितार्कः सततं दृश्यते तं देशमाह -- यत्रेति । मेरौ तु राशिषट्कस्थितार्कः सततं दृश्यत इत्याह — यत्रेति ॥ २८-३० । इदानों लल्लोक्तस्य दृश्यादृश्यत्वलक्षणस्य दूषणमाह -- राशेर्यस्य निरक्षजोदयसमाः स्वीयाश्चरार्धासवो दृश्यस्तत्र सदा स राशिरिति यनियुक्ति लल्लोदितम्' । यद्येवं रसषट् ६६ पलांशविषये सर्वेऽप्यमी सर्वदा दृश्याः स्युर्युगपच्चरोदयघटीसाम्यादसत् तत् ततः || ३१ । वा० भा०- - एकद्वित्रिराशीनां चराण्यधोऽध: शोधितानि तानि चरखण्डानि राशीनां पृथक्पृथक् स्वचरार्धानि चोच्यन्ते । निरक्षोदयासवो गगनभूधरषट्कचन्द्रा १६७० इत्यादयो यत्र १. अत्र लल्लः -- यस्य स्वचरार्धंसमा निरक्षविषयोदयासवो राशेः । दृश्यः स सदा तस्मिन् दृश्यादृश्योऽन्यथा भवति ॥ शि० धी० गो० मध्य १९ श्लो० ।
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४५५
दिखावट