पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९४ सिद्धान्तशिरोमणी गोलाध्याये देशे ग्रस्य राशे: स्वचरार्धसमाः स राशिस्तत्र देशे सदा दृश्य इत्यत्र का युक्तिः | अन्यथा दृश्यादृश्यं सर्वं युक्तिशून्यमुक्तम् । यद्येवं तहि यत्र षट्षष्टिः ६६ पलांशास्तत्र सर्वेषां स्वचरोदय- साम्यं स्यात् । युगपत् सर्वेषां सदा दृश्यत्वं मेरावपि न घटते किंत्वन्यत्रा तस्तदसत् ॥ ३१ । वा० वा० – लल्लेन यत्सदोदितराशिलक्षणं कृतं तदनूद्य दूषयति - राशेरिति ॥ ३१ । इदानीमन्यदूषणमाह - षट्षष्टिः सदला लवाः पलभवा यस्मिन् न तस्मिन् धनु- र्न क्रश्चापि न वृश्चिको न च घटः पञ्चाद्रयो ७५।० यंत्र च' । दृश्यः स्यादिति यत् सदा प्रलपितं लल्लेन गोले निजे गोलज्ञ त्रिलवोनितास्त उदिताः केनोच्यतां हेतुना ॥ ३२ । वा० भा० – अत्र त्र्यंशयुङ्नवरसा इत्यादिभिर्भवितव्यम् । ६९ । २१ ॥ ७८ । १५ । एषां स्थान एते १६ । ७७ : त्रिभिस्त्रिभिरंशेरूना केन हेतुना लल्लेन निजे गोले पठिता: । हे तद्गोलज्ञ तत् प्रोच्यताम् । [ तथा नहि तेषां राशीनां निरक्षोदयसमानि स्वचरखण्डानि । तत्र चरार्धान्यपि ना- गच्छन्ति । चरज्यायास्त्रिज्यातोऽधिकत्वात् । अतः पूर्वंश्लोकेऽतिदुष्टत्वमित्यर्थः । ]२ ॥ ३२ ॥ वा० भा०——तदुक्तमन्यदपि दूषयति - षट्षष्टिरिति ॥ ३२ ॥ अथाक्षलम्बज्ञानार्थमाह - यन्त्रवेधविधिना ध्रुवोन्नतिर्या नतिश्च भवतोऽक्षलम्बकौ । तौ क्रमाद्विषुवदह्नयहर्दले येऽथवा नतसमुन्नता लवाः ।। ३३ । वा० भा० – चक्रयन्त्रेण ग्रहवेधवद्ध्रुवं विध्येत् । तत्र यन्त्रनेम्यां य उन्नतांशास्तेऽ- क्षांशाः । ये नतास्ते लम्बांशाः । अथवा विषुवद्दिनाघें येऽकंस्य नतोन्नतांशास्तेऽक्ष लम्बांशा इति युक्तियुक्तम् ॥ ३३ ॥ इदानीं शङ्क्वानयनवासनां संक्षिहामाह- उन्नतं द्युनिशमण्डले कुजात् सावनं दयुतिविधौ हि तज्ज्यका । तिर्यगक्षवशतोऽक्ष कर्णवच्छेदको न तु नरः स लम्बवत् || ३४ | वा० भा: -- अस्य वासना त्रिप्रश्ने कथितेव ॥ ३४ ॥ १. अत्र लल्लः - पञ्चभिरधिका सप्ततिरंशा यस्मिन् पलस्य विषये स्थुः । तत्र न वृश्चिककार्मुक मकरघटा दृश्यतां यान्ति || शि० धी० गो० मध्य २० श्लो० । २. अत्र बापूदेवः – तथा नहीतिप्रभृतीत्यर्थं इत्यन्तं केनचिद्गोलानभिज्ञेन प्रक्षिप्त मिति प्रतिभाति ।