पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१२ सिद्धान्तशिरोमणौ गोलाध्याये वा० वा० -- लग्नलक्षणमाह - यत्रेति ॥ २६ | अथ लग्नार्थमकंस्य तात्कालिकीकरणवासनामाह -- लग्नार्थमिष्टघटिका यदि सावनास्ता- स्तात्कालिकार्ककरणेन आर्त्तोदया हि सदृशीभ्य इहापनेयास्ता- भवेयुरायः । त्कालकत्वमथ य क्रियते यदायः ॥ २७ ॥ वा० भा० -- ननु लग्नकरणार्थं या इष्टघटिकास्ताः सावना उत नाक्षत्राः । यदि साव- नास्तहि नाक्षत्रा उदयाः कथं विसदृशास्ताभ्यो विशोध्या: । अतस्ताभिर्नाक्षत्राभिर्भवितव्यम् । तथा भोग्यकालसाधनार्थमर्कस्तात्कालिकः किं कृतः । यत उदयावधेरिष्टघटिकास्तथा दयानन्त- रमेव राशेर्भोग्यांशाः क्रमेणोद्गच्छन्ति । अत औदयिकाकंस्य भोग्यं ग्रहीतुं युज्यते न तात्का लिकस्य । तथा प्रतीत्यर्थं मुदाहरणम् । यत्र किल पञ्चाङ्गुला ५ विषुवती तत्र मेषादिगेऽकें स्फुट- महोरात्रं चतुश्चत्वारिंशदसुभिरधिकाः षष्टिघटिका ६० । ७ । २ । अथ उदयानन्तरमहो- रात्रसमे काले ६० । ७ । २ यावत् तात्कालिकार्कालग्नं साध्यते तावदर्काधिकं स्यान समम् । यावदौदयिकार्कात् क्रियते तावत् सममेव । अतोऽन्वयव्यतिरेकाभ्यां प्रतोतेर्युक्ति- तश्चाकंतात्कालिकीकरणमयुक्तमिव प्रतिभाति । सत्यम् । अत एवोक्कं लग्नार्थं मिष्टघटिका इत्यादि । अत्रेष्टघटका: सावनास्तावदाचायँरङ्गीकृतास्तासां नाक्षत्रत्वं कर्तव्यम् । तच्चैवम् | यथा प्रागुक्तस्वाहोरात्र सम्बन्धिन्यो या गतिकलास्ताः स्वोदयासुभिः संगुष्य राशिकलाभिविभज्य फलासु- भिरधिका: सावनतुल्या नाक्षत्राः षष्टिघटिका अहोरात्रवृत्ते नाक्षत्राः स्युः । एवमिष्टघटो- सम्बन्धिन्यो या गतिकलास्ताः स्वोदयासुभिः संगुष्य राशिकलाभिविभज्य फलासवस्तास्विष्टघटिकासु सावनासु प्रक्षेप्याः । एवं नाक्षत्राः स्युः । तत औदयिकार्कस्य भोग्यासवः शोध्या: । एवं सत्याचा- र्येण लाघवार्थमिष्टघटोसम्बन्धिन्यो गतिकला अर्को प्रक्षिप्तास्ततो ये भोग्यासवस्त औदयिकाकँ- भोग्यासुभ्यो न्यूना जातास्ते यावदिष्टघटिकाभ्यः शोध्यन्ते तावत् ता इष्टघटोसम्बन्धिगतिकला- सुभिरधिकाः कृताः स्युः । एवं तासां सावनानां नाक्षत्रीकरणार्थमर्कस्य तात्कालिकीकरणमुपपन्नम् । ननु यद्येवं तर्हि कि सावना अङ्गीकृत्य नाक्षत्रीकरणप्रयासेन । किमु नाक्षत्रा एव नाङ्गकृताः । सत्यम् । तदप्युच्यते । अत्र त्रिप्रश्ने छायाथं ग्रहाणां स्वस्वसावन मेवोदितं ग्राह्यम् । तद्यथा । इष्टफाले स्वाहोरात्रवृत्ते यत्र ग्रहः स्थितः । यत्र च क्षितिजसंगस्तयो- रन्तरे यावन्तो घटोविभागास्तावत्यः सावना नाडयस्ता हि क्षेत्रविभागात्मिकाः । अथ चोदयकाले यत्र स्थितो ग्रह आसीत् तत्कुजमध्ये याबत्यस्तावत्यो नाक्षत्रास्तास्तु कालविभागात्मिका: । यथा पौर्णमास्यां छायाकरणे चन्द्रस्यासकृद्विधिनोदिता नाडिका- स्ताश्छायाथं न युज्यन्ते । यत्तु कैश्चिच्छायार्थमप्यसकृद्विधिनानोतास्तदसत् । अत एव वक्ष्यति चन्द्रप्रभार्थमसकृद्विधिनोदितं यत् कैश्चित् कृतं खलु न सत् तदसावनत्वात् । जानन्ति ये न निपुणं गणितं सगोलं तेषां तु तन्त्रकरणव्यसनं वृथैव ॥