इदानीमुन्मण्डलमाह - पूर्वापरक्षितिजसङ्गमयोर्विलग्नं गोलबन्धाधिकारः याम्बे ध्रुवे पललवैः क्षितिजादधःस्थे । सौम्धे कुजादुपरि चाक्षलवैध्रुवे तदुन्मण्डलं दिननिशोः क्षयवृद्धिकारि ॥४॥ वा० भा० – समवृत्त क्षितिजयोय पूर्वापरौ संपातौ तयोध्रुवचिह्नयोश्च सक्तं यन्निबध्यते तदुन्मण्डलसंज्ञम् । दिनराज्योर्वृद्धिक्षयौ तद्वशेन भवतः ।। ४ । इदानीं विषुवन्मण्डलमाह - पूर्वापरस्वस्तिकयोविंलग्नं खस्वस्तिकाद्दक्षिणतोऽक्षभागैः । अधश्च तैरुत्तरतोऽङ्कितं च षष्टयात्र नाडीवलयं विदध्यात् ॥ ५॥ वा० भा० - तयोरेव पूर्वापरसंपातयोबिलग्नं तथा याम्योत्तरवृत्ते खस्वस्तिकाद्दक्षिण- तोऽधः स्वस्तिकादुत्तरतोऽक्षांशान्तरे यद्वृत्तं निबध्यते तद्विषुववृत्तम् ॥ ५ ॥ इदानीं वृङ्मण्डलमाह - ऊर्ध्वाधरस्वस्तिककीलयुग्मे प्रोतं लथं दृग्वलयं तदन्तः । कृत्वा परिभ्राम्य च तत्र तत्र नेयं ग्रहो गच्छति यत्र यत्र ||६| वा० भा०–खस्वस्तिके चाधः स्वस्तिके चान्तः कोलकौ कृत्वा तयोः प्रोतं इथं दृग्वलयं कार्यम् । तत्तु पूर्ववृत्तेभ्य: किंचिन्त्यूनं कार्यम् | यथा खगोलान्तर्भ्रमति । यद्येक एव ग्रहगोलस्त- दैकमेव वृङ्मण्डलम् । यो यो ग्रहो यत्र यत्र वर्तते तस्य तस्योपरीदमेव परिभ्राम्य विन्यस्य दृग्ज्याशङ्कवादिकं दर्शनीयम् । अथवा पृथक् पृथगष्टौ दृङ्मण्डलानि रचयेत् । तत्राष्टमं वित्रिभ-. लग्नस्य । तच्च दृक्क्षेपमण्डलम् ॥ ६ ॥ + अथ विशेषमाह - ज्ञेयं तदेवाखिलखेचराणां पृथक् पृथग्वा रचयेत् तथाष्टौ दृङ्मण्डलं वित्रिभलग्नकस्य दृक्क्षेपवृत्ताख्यमिदं वदन्ति ॥७॥ वा० भा० -- व्याख्यातमेवेदम् ।। ७ । वा० वा०—खगोलरचनां वृत्तपञ्चकेनाह पूर्वापरमित्यादिना ॥ ३-७ । इदानीमेवं खगोलमुक्त्वा दृग्गोलमाह - ५ बद्ध्वा खगोले नलिकाद्वयं च ध्रुवद्वये तन्नलिकास्थमेव । बहिः खगोलाद्विदधीत धीमान् दृग्गोलमेवं खलु वक्ष्यमाणम् ||८| भगोलवृत्तैः सहितः खगोलो दृग्गोलसंज्ञोऽपममण्डलाः । द्विगोलजातं खलु दृश्यतेऽत्र क्षेत्र हि दृग्गोलमतो वदन्ति ॥ ९ ॥ ● वा० भा० – तस्मिन् खगोले ध्रुवचिह्न योर्नलिकाद्वयं बद्ध्वा तन्नलिकाधारमेव खगोलाद्व- हिरङ्गुलत्रयान्तरे दृग्गोलं रचयेत् । कथितैः खगोलवृत्तेवँक्ष्यमाणैभंगोलवृत्तः क्रान्ति विमण्डलाद्यैर्यो १. दृग्गोलसंज्ञोऽपविमण्डलाद्यैरिति पाठान्तरम् ।
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४३७
दिखावट