पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९६ सिद्धान्तशिरोमणी गोलाध्यायें निबध्यते स दृग्गोलः । कथमस्य दृग्गोलसंज्ञेति तदर्थमाह । द्विगोलजातमित्यादि । यतोऽग्राकुज्या- समशङ्क्वाद्यक्षक्षेत्राणि द्विगोलजातानि | भगोलवृत्तैः खगोलवृत्त मिलितैस्तान्युत्पद्यन्ते | भिन्न- गोलबन्धे सम्यङ्नोपलक्ष्यन्त इति दृग्गोलः कृतः ।। ८-९ । इति खगोलदृग्गोलबन्धी । दृग्गोलबन्धमाह—बद्ध्वेति । भगोलवृत्तैरिति ।। ८-९ । वा० वा० –द्वाभ्यां इदानीं भगोलबन्धमाह - याम्योत्तरक्षितिजवत् सुदृढं विदध्यादाधारवृत्तयुगलं ध्रुवयष्टिचद्धम् । षष्ट्यङ्कमत्र सममण्डलवत् तृतीयं नाड्याह्वयं च विषुवद्वलयं तदेव ||१०| वा० भा० - यथा ख • क्षितिजं याम्योत्तरं च तदाकारमपरमाधारवृत्तद्वयं ष्ट कृत्वा तदुपर्यंन्यत् तृतीयं सममण्डलकारं घटीषष्ट्या चाङ्कितं कार्यम् | तन्नाडोवृत्तं विषुवव तसंज्ञं च ।। १० । इदानीं क्रान्तिवृत्तमाह क्रन्तिवृत्तं विधेयं गृहाङ्क भ्रमत्यत्र भानुश्च भार्धे कुभा भानुतः । क्रान्तिपातः प्रतीपं तया प्रस्फुटाः क्षेपपाताश्च तत्स्थानकान्यङ्कयेत् ||११| - वा० भा० - अथान्यत् तत्प्रमाणमेव वृत्तं कृत्वा तत्र मेषादि प्रकल्प्य द्वादशराशयोs- ट्र्याः । तत् क्रान्तिवृत्तसंज्ञम् । तस्मिन् वृत्ते रविभ्रमति । तथा रवेर्भाधन्तिरे भूमा च । तथा तत्र क्रान्तिपातो मेषादेविलोमं भ्रमति । यथा ग्रहाणां विक्षेपपाताः प्रस्फुटा विलोमं भ्रमन्ति । अतः क्रान्तिपातादीनां स्थानानि तत्राङ्कयानि ॥ ११ ॥ इदानीं क्रान्तिवृत्तस्य निवेशनमाह - क्रान्तिपाते च पाताद्भषट्कान्तरे नाडिकावृत्तलग्नं विदध्यादिदम् । पाततः प्राक् त्रिभे सिद्धभागैरुदग्दक्षिणे तैश्च भागैर्विभागेऽपरे ॥ १२ ॥ वा० भा० – क्रान्तिपातचिह्नात् षड्भेऽन्तरेऽन्यचिह्न कार्यम् । ते चिह्न नाडीवृत्तेन संसक्के कृत्वा पातचिह्न।दग्रतस्त्रिभेऽन्तरे नाडीवृत्ताद्भागचतुविशत्योत्तरतो यथा भवत्यपरविभागे त्रिभेऽन्तरे दक्षिणतश्च तैर्भागथा भवति तथा बघ्नीयात् ।। १२ । इदानीं विमण्डलमाह - - . नाडिकामण्डले क्रान्तिवृत्तं यथा क्रान्तिवृत्ते तथा क्षेपवृत्तं न्यसेत् । क्षेपवृत्तं तु राश्यङ्कितं तत्र च क्षेपपातेषु चिह्नानि कृत्वोक्तवत् ||१३| क्रान्तिवृत्तस्य विशेषवृत्तस्य च क्षेपपाते सषड्भे च कृत्वा युतिम् । क्षेपपाताग्रतः पृष्ठतश्च त्रिभे क्षेपभागैः स्फुटैः सौम्ययाम्ये न्यसेत् ।।१४। शीघ्रकर्णेन भक्तास्त्रिभज्यागुणाः स्युः परक्षेपभागा ग्रहाणां स्फुटाः । क्षेपवृत्तानि पण्णां विदध्यात् पृथक् स्वस्ववृत्ते भ्रमन्तीन्दुपूर्वाग्रहाः ||१५|