सामग्री पर जाएँ

पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६४ सिद्धान्तशिरोमणौ गोलाध्याये एवं वप्रफलं तत् स्याद्गोलव्याससमं यतः । परिधिव्यासघातोऽतो गोलपृष्ठफलं स्मृतम् ||६१॥ वा० भा०—अत्राभीष्टे कस्मिंञ्चिदुग्रन्थे यावन्ति ज्यार्थानि तत्संख्या चतुर्गुणा । तन्मितः किल गोले परिधिः कल्प्यः । यथामलकगोलपृष्ठे मुखबुध्नगरेखाभिः सहजाभिविभक्ता वप्रका दृश्य- न्ते । तथाभीष्टे गोलपृष्ठे मस्तकात् तलगरेखाभिः कल्पित परिधिसंख्यान् वद्रकान् प्रकल्प्यैकस्मिन् वप्रे क्षेत्रफलं साध्यम् । तद्यथा । इह किल धीवृद्धिदे चतुविशतिर्ज्यार्थानि । अतः षण्णवतिहस्तमि- तो गोले परिधिः कल्पितः । प्रतिहस्तमूर्ध्वाधो रेखाभिस्तावन्तो वप्रकाश्च कृताः। तत्रैकस्य वप्रकरया हस्तान्तरे हस्तान्तरे तिथंग्रेखाः कृत्वा ज्यासंख्यानि चतुर्विंशतिः खण्डानि कल्पितानि । तत्र जीवा: पृथक् पृथक् त्रिज्याभक्तास्तिर्यग्रेखाप्रमाणानि भवन्ति । तत्राधस्तनी रेखा हस्तमात्रा | उपरित- न्यस्तु ज्यावशेन किंचित् किंचिन्यूनाः । सर्वत्र हस्तमित एव लम्ब: | लम्बगुणं कुमुखयोगार्धमिति खण्डफलान्यानीयैको कृतानि । तद्वप्रकाधें फलम् । सद्विगुणमेकस्मिन् वत्रके फलं भवति । तत्साध- नामिह सूत्रमिदम् । सर्वज्यैक्यं त्रिभज्याधंहीनमित्यादि । अत्र सर्वज्यानां शरनेत्रबाहव इत्यादी - नाक्यं सुरयमकृतबाणतुल्यम् ५४२३३ । एतत् त्रिज्यार्थेनोनं जातं मनुतत्त्वपञ्चमितम् ५२५१४ एतत् त्रिज्याथंभक्तं जातमे कवप्रके क्षेत्रफलं व्याससमम् ३० । ३३ । यत एतावानेव षण्णवतिपरिधेर्गोलस्य व्यास: स्यात् ३० | ३३ | परिधितुल्यकाइच वत्रका इति परिधिव्यासघा- तो गोलपृष्ठफलमित्युपपन्नम् । तथा चोक्तमस्मरपाटीगणिते- वृत्तक्षेत्रे परिधिगुणितव्यासपादः फलं तत् क्षुण्णं वेदैरुपरि परितः कन्दुकस्येव जालम् । गोलस्यैवं तदपि च फलं पृष्ठजं व्यासनिघ्नं षड्भिभंक्तं भवति नियतं गोलगर्भे घनास्यम् ॥ गोलपृष्ठफलस्य व्यासगुणितस्य षडंशो घनफलं स्यात् । अत्रोपपत्तिः—पृष्ठफलसंख्यानि रूपबाहूनि व्यासाधंतुल्यवेधानि सूचीखातानि गो- लपृष्ठे प्रकल्प्यानि सूच्यग्राणां गोलगर्भे संपातः । एवं सूचीफलानां योगो घनफल- मित्युपपन्नम् । यत् पुनः क्षेत्रफलमूलेन क्षेत्रफलं गुणितं घनफलं स्यादिति । तत् प्राय- चतुर्वेदाचार्य: परमतमुपन्यस्तवान् ॥ ५८- ६१ | १. अत्र बापूदेवोक्ता सर्वज्यैक्यानयनप्रकाराः- आद्यच्चापदलकोटिदोर्ज्ययोः संयुतिस्त्रिमगुणाधंसङ्गुणा । आद्यचापदलजीवया हुता स्यात् स्फुटा सकल शिञ्जिनीयुतिः ॥ आद्य चापदलयुक्शरवेदांशज्यका शरयुगांशगुणघ्नी । आद्यचापदलमौर्विकया वा भाजिता भवति सर्वगुणक्यम् ॥ यद्वा । क्रमोत्कमज्यायुतिराद्यचापोद्भवा त्रिमोर्व्या गुणिता विभक्ता | द्विघ्न्याद्यचापोत्कमजीवया स्यात् सर्वज्यकैक्यं सुखतोऽतिसूक्ष्मम् । एवमष्टत्रिवेदाग्निव्यासार्धे या जिनज्यकाः । साग्रा : सूक्ष्मास्तदैक्यं स्यान्नन्दद्विद्वियुगेषवः ५४२२९ ॥ अत्र ज्यैक्यानयनप्रसङ्गादुत्कमज्येषयानयनम्-- सैकज्यासङ्ख्याघ्नी त्रिज्या सर्वज्यकैक्येन । हीना स्यात् सर्वोत्कमजीवानां संयुतिः स्पष्टा ॥ २. इदं स्वचतुर्थाशोनं वास्तवासन्नं भवति ।