पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवनकोशः वा० वा० – प्रकारान्तरेणाह- गोलस्य परिधि: कल्प्य इति । तत्रैकवप्रक्षेत्र - फलमिति । अत्र षण्णवति वप्रका भवन्ति । वप्रका समान्तरेण चतुर्विंशतिरेखा- स्तिर्यक् कार्याः । ता एव जीवास्तत्त्वाश्विमुखाः कल्प्याः । वप्रकार्द्धे त्रिज्या कल्पिता । तिय ग्रेखयोरन्तरं सर्वत्र परिधिषण्णवत्यंशो रूपमितः कल्पितः । अत्र सर्वत्र रूपमित एव लम्ब: । लम्बेन निघ्नं कुमुखैक्यखण्डम् । इति फलमानेयम् । त्रिज्यया रूपं लभ्यते तदेष्टतत्त्वाश्विमुखया जीवया किमिति चतुर्विंशतिजीवानां प्रत्येकं सम एव हरः कृतः । तत्र वप्रकार्द्धप्रथमशकले मुखं शून्यं भूः तत्त्वाश्वितुल्येति प्रथमजीवार्द्धफलमागतम् । द्वितीयशकले तु प्रथमद्वितीयजीवा- योगार्द्धं फलम् । योगार्द्धमर्धयोगतुल्यमिति फलद्वययोगो जातः । प्रथमसम्पूर्णजीवायुक्त- द्वितीयजीवार्द्धतुल्यस्त्रिज्याहरस्योभयत्र तुल्यत्वात् । एवं तृतीयशकलादिषु पृथक् फलान्यांनीय पूर्वफलेषु संयोज्य फलयोगो ज्ञातव्यः । चतुर्विंशत्तिमितशकले त्रयो- विशति जीवार्द्धयुक्तं चतुर्विंशतिजीवार्द्धापरपर्यायं त्रिज्याद्धं भवति । इदं त्रयोविंश- तिमितसकलक्षेत्रफलयोगे द्वाविंशतिसम्पूर्ण जीवायोगयुक्तत्रयोविंशतिजीवार्द्धमिते योजितं जातं सर्वज्यैक्यं त्रिभज्या र्द्धहीनम् । अत्र प्रागुक्तयुक्तघा त्रिज्या हरोऽस्ति । इदं वप्रकार्द्ध- जातम् । द्विगुणं वप्रफलं स्यादिति गुणहरौ गुणेनापवर्त्य त्रिज्यार्द्धभाजितमित्युक्तम् । वप्रफलं गोलव्याससममुत्पन्नम् । यद्वैकवप्रे गोलव्यासतुल्यं फलं तदा गोलपरिधि- तुल्यवप्रैः किमिति जातं परिधिव्यासघाततुल्यं गोलपृष्ठफलमित्याह – एवं वप्रफलं तत्स्यादिति । "दुष्टं कन्दुकपृष्ठजालवदिला गोले फलं जल्पित” मिति यदुक्तं पूर्वं तत्सर्वं शोभनम् । - अत्राचार्येण यद्भूपृष्ठफलमुक्तं तल्लल्लोक्तभूपृष्ठफलदूषणार्थमेव । घनाख्य- फलस्य न कोऽप्युपयोग इति तन्नोक्तम् । नंनु पाटीगणितेऽपि - 'मुखे दशद्वादशहस्ततुल्यं विस्तारदैर्घ्यं च तले तदर्द्धम् । यस्याः सखे सप्तकरश्च वेधः का खातसंख्या वद तत्र वाप्याम् ॥ इति प्रश्नस्य मुखज तलजतद्युतिजक्षेत्रफलैक्यं हृतं षड्भिः | क्षेत्रफलं सममेवं खाते घनहस्तसंख्या स्यात् - इत्युत्तरस्य क उपयोग इति चेत् । घनहस्तखातानुसारेण कर्मकारजनवेतनज्ञान प्रयोजनम् । अस्यां वाप्यां कियद् घनहस्तं जलं मानमिति प्रयोजनानि बहूनि सन्ति न तथा भूमावस्ति प्रयोजनम् । यत्र खाते विस्तारदैर्घ्यवेधाः भिन्ना एवोपलभ्यन्ते तद्विषमचतुरस्रादिखातम् । विषमचतुरस्रखाते. - १. ली० खा० २ सू० १ उदा० । २. ली० खा० २-३ सू० ।