सिद्धान्तशिरोमणी गोलाध्याये किं देशान्तरमुद्गमान्तरमहो बाह्वन्तरं किं चरं किं चोच्चं मृदु चञ्चलं च तदिदं कस्तात पातः स्मृतः ॥ ३॥ किं केन्द्रं किमु केन्द्रजं किमु चलं किं वाचलं तत्फलं कस्मात् तत्सहितः कुतश्च रहितः खेटः स्फुटो जायते । किं दृकर्म तथोदयास्तसमये द्वेधा विध्युर्बुधाः सर्वं मे विमलं वदामलमलं गोलं विजानासि चेत् ॥ ४॥ वा० भा० – अत्र किं देशान्तरमुद्गमान्तर मित्यादि यत् पृष्टं तत् सर्वं मे विमलं यथा भवति तथा वद । यद्यमलं ब्रह्मादिसुकविरचितं गोलमलमत्त्यर्थं विजानासि | शेषं स्पष्टम् ॥३-४॥ अय त्रिप्रश्ने दिनमानभेद प्रश्नं श्लोकद्वयेनाह - ३३६ महदहः किमहो रजनी तनुर्दिनमणौ गणकोत्तरगोलगे । ननु तनुर्दिवसो महती निशा वद विचक्षण दक्षिण दिग्गते ||५| भवति किं ह्युनिशं युनिवासिनां घुमणिवर्षमितं च सुरद्विषाम् । पितृषु किं शशिमासमितं तथा युगसहस्रयुगं द्रुहिणस्य किम् ||६| वा भा० - स्पष्टम् ।। ५-६ । अथ राश्युदयभेदप्रश्नमाह - भवलयस्य किलार्कलवाः समाः किमसमैः समयैः खलु राशयः । समुपयान्त्युदयं किमु गोलविन्न विषयेष्वखिलेष्वपि ते समाः ॥७॥ . वा० भा० - स्पष्टम् ।। ७ । इदानों युज्याकुज्या विसंस्थान प्रश्नं वृत्ताघेंनाह - धुज्याकुज्यापमसमनराग्राक्षलम्बादिकानां विद्वन् गोले वियति हि यथा दर्शय क्षेत्रसंस्थाम् । वा० भा० - स्पष्टार्थम् । १ इदानीं चन्द्राकंग्रहणयोदिक्काल भेदाधुपपति इनान् साधंश्लोकेनाह- तिथ्यन्ते चेद्ग्रह उडुपतेः किं न भानोस्तदानी- मिन्दोः प्राच्यां भवति तरणेः ग्रग्रहः किं प्रतीच्याम् ||८| १. अत्र बापूदेवः- चन्द्रस्य ग्रहोऽपि सर्वदा तिथ्यन्ते न भवति । यतो ग्रहो नाम छाद्यच्छादकयोर्योगः । सच भूमेन्दुकेन्द्र योयंदात्यल्पमन्तरं स्यात् तदैव भवति । तच्च पूर्णान्ते कदम्बसूत्रंगतयोर्मू- भेन्द्रोस्तत् प्रायः कदम्बसूत्रस्थयोरेव भवतीत्यनेन योग: प्रायिक: कादाचित्कस्त्वन्यत्र स्थित- योरपीति प्रदर्शयद्भिराचार्येस्तिथ्यन्तादितरत्रापि स्वयं दर्शितम् । वस्तुतश्च कदम्बसूत्रं गतयोर्भू- भेन्द्रो: केन्द्रान्तरसत्त्वे त्यल्पमन्तरं नैव भवत्यपि त्वन्यत्रैवेति ।
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३७८
दिखावट