गोलप्रशसा “अत्रोपपत्तिः--“श्रुतिगोलेन' ज्ञातुं शक्यत" इति साधनोपपत्ति प्रति श्रुतगोलेनेति तृतीयया हेतुत्वं गोलज्ञानस्योक्तम् । 'वासनावगतिर्गोलानभिज्ञस्य न जायते । व्याख्याताः प्रथमं तेन गोले या विषमोक्तयः ॥ अथ निजकृतशास्त्रे तत्प्रसादात्पदार्थान् शिशुजनघृणयाऽहं व्यञ्जयाम्यत्र गूढान् । ४ विमलितमनसां सद्वासनाभ्यासयोगे- भ॑वति हृदि यथैषां तत्त्वभूतार्थबोधः ॥ इति च स्पष्टमेवाभिहितम् - लम्बनं बत कि ? का च नतिर्मतिमताम्बर इत्यादि प्रश्नाः । दृक्सूत्राल्लम्बितश्चन्द्रस्तेन तल्लम्बनं स्मृतम् । इति चोत्तराणि गोलस्य ग्रहगणितप्रतिपाद्यपदार्थस्वरूपयुक्तिप्रतिपादकत्वं गमयन्ति । यद्वा "दृग्गणितसाम्यसम्पादनकौशलं प्रौढत्वम् । ग्रहगणितप्रतिपादित - पदार्थास्तद्वासनावासितान्तःकरणगणकप्रत्यक्षाः । यथा सुवर्णत्वावान्तरजाति उपदेश- सहकृतचक्षुर्ग्राह्या तथा वासना ज्ञानसहकृतचक्षुर्ग्राह्या लम्बनादिपदार्था इति हगणतै- क्यसम्पादने गोलज्ञानमावश्यकम् । दृग्गणितैक्यज्ञानसम्पादनकुशलेनैव ग्रहणाद्यादेशो निःसंशयं कत्तु॰ शक्यते नान्येन । तस्माद् गोलस्य ग्रहणाद्यादेशः परम्परया फलम् । दृग्ग्राह्यपदार्थेयत्तातुल्यत्वं ग्रहगणितागतपदार्थेयत्तायाः यथा भवति तथा सम्पादनं दृग्गणितसाम्यसम्पादनमित्युच्यते । गतिर्नाम ग्रहचलनात्मकं कर्म, प्रत्यक्षं ग्रहश्चलतीत्यनुभवेनायं चलतीतिवत् । चलनात्मकं कर्म संयोगविभागात्मकम् । अभ्रेषु चलत्सु चन्द्रश्चलतीति ज्ञानं भ्रान्तिरूपं विदिततत्त्वानां पीतः शङ्ख इति वत् । ३२७ ननु दृग्ग्राह्यपदार्थेयत्ता प्रत्यक्षप्रमाणगम्या | ग्रहगणितागतपदार्थेयत्ता सूर्यादि- प्रणीतज्योतिश्शास्त्ररूप - स्मार्त्तश्रुतिप्रमांणगम्या | कथमनयोविरोधे प्रत्यक्षानुरोधेन स्मार्त्तश्रुतेर्नयनमिति | "यथा-“कृष्णलं श्रपयेत्” इत्यादौ कृष्णले 'उष्णीकरणमात्रमिव रूपरसपरावृत्ति प्रादुर्भावपर्यन्तमुख्यश्रपणसम्बन्धः प्रत्यक्षविरुद्ध इति तदविरोधाय 'श्रपणशब्दस्योष्णी- करणमात्रे लक्षणाभ्युपगमात् तथाऽत्रापि प्रत्यक्षप्राबल्यम् । अन्यथा प्रत्यक्षादागम- १. लेनैव इति भाष्ये । ३. ग्र० ग० आदी भाष्ये । ५. मयंक पु० । ७. तै० १।३।६।७ । २. श्रोतुमिति भाष्ये । ४. लिनकपु० । ६. शल्यं कपु० । ८. उषी क । ९. स्योष्ली क० ।
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३६९
दिखावट