सिद्धान्तशिरोमणौ ग्रहगणिते ११२ इवानीं भुजकोट्योः फलानयनमाह - स्वेनाहते परिधिना भुजकोटिजीवे भांशैः ३६० हृते च भुजकोटिफलाह्वये स्तः' । त्रिज्योते च यदि वान्त्यफलज्यका धन्यौ त्रिज्योद्भवं फलमिहान्त्यफलस्य जीवा ॥ २६ ॥ वा० भा० - स्पष्टम् । अत्रोपपत्तिः । यावत् केन्द्र प्रतिमण्डले तावदेव नीचोच्चवृत्ते स्यात् । अतः प्रतिम- ण्डलदो : कोटिज्ये अनुपातेन नीचोच्चवृत्ते परिणाम्येते । यदि भांशवृत्त एते दो: कोटिज्ये तदा परिध्यंशवृत्ते किमिति । अथवा त्रिज्याव्यासार्ध एते दो: कोटिज्ये तवान्त्यफलज्याव्यासाधें किमिति । फलं तुल्यमेव । अन्त्यफलज्या पूर्व नोक्ता तदर्थं त्रिज्योद्भवं फलमित्यादि । त्रिज्या पृथग् ग्रहाणां मन्दशीघ्रपरिधिभा गंगुंण्या भांशैः ३६० भाज्यान्त्यफलज्या भवतीत्यर्थः ॥ २६ ॥ वा० वा०— स्वेनाहते परिधिनेति स्पष्टम् ॥ २६ ॥ इदानों कर्णानयनं प्रकारचतुष्टयेनाह- स्वकोटिजीवान्त्यफलज्ययोर्यो योगो मृगादावथ कर्कटादौ । केन्द्रेऽन्तरं तद्भुजजीवयोर्य द्वर्गैक्यमूलं कथितः स कर्णः ॥ २७॥ त्रिज्या तथा कोटिफलेन युक्ता हीना च तद्दोः फलवर्गयोगात् । मूलं श्रुतिर्वान्त्यफलत्रिमौयोर्वर्गैक्यराशेश्च तथा युतोनात् ॥ २८॥ त्रिभज्यया कोटिफलद्विनिध्न्या कोटिज्यया वान्त्यफलद्विनिघ्न्या । मूलं श्रुतिर्वा मृदुदोः फलस्य चापं बुधा मन्दफलं वदन्ति ||२९|| वा०भा० – मृगादौ केन्द्र कोटिज्यान्त्यफलज्ययोर्यो योगः कर्यादौ तु तस्य भुजज्यायाश्च वगैक्यपदं कर्णः स्यात् । तथा मृगादिकेन्द्र त्रिज्याकोटिफलयोयोग: कक्र्यादौ तु यदन्तरं तस्य भुजफलस्य च वर्गैक्यपदं व कर्णं: स्यात् । तथा मृगादिकेन्द्र त्रिज्यान्त्यफलज्ययोवंगंयोगात् त्रिज्यया काटिफलगुणया द्विगुणया च युतादथवा कोटिज्ययान्त्यफलज्यागुणया द्विगुणया च युतात् कार्यादौ तु हीनान्मूलं वा श्रुतिः स्यात् । अथ मन्दभुजफलस्य धनुग्रंहस्य मन्दफलं भवति । १. अत्र लल्ल: । दोर्ज्यावर्गविवर्जितत्रिभवनज्यावर्गमूलं भवेत् कोटिज्या भुजभागवर्जितनवत्यंशोत्थजीवाथवा | स्पष्टस्वस्वगुणाहते खदसुभिर्दो कोटिजीवे हरेत् स्यातां दो: फलकोटिपुंज्ञितफले ताभ्यां श्रुति साधयेत् । शिष्यधीवृ० ग्र० ग० स्प० ३० श्लो०
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१५७
दिखावट