सिद्धान्तशिरोमणौ ग्रहगणिते किञ्च यष्टिसाधने शृङ्गोन्नतौ च यदूषणं दत्तं तद्युक्तिशून्यत्वादसत् । उच्छास्त्रं स्वच्छन्दं प्रवर्त्तमानानामेवमादीनि दूषणान्येव भूषणानि भवन्तीति गुणा एव तेषां वक्तव्यास्त एव दूषणाय प्रभविष्यन्ति । ९० यथा सौरचान्द्रान्तरेऽधिकमासाः पूर्वैः स्वीकृतास्तथा त्वया सौरसावनान्तरे चान्द्रसावनान्तरे वा नस्वीकृता इति तवायं गुण उक्तयुक्तेस्तुल्यत्वादिति । नक्षत्रानयनं स्थूलसूक्ष्मभेदेन धर्मशास्त्रफलादेशशास्त्रोपयुक्तत्वाद्विविधमादृतम् । तत्तु तथैव त्वया- प्यादृतमिति महान् गुणो वैषम्यस्वीकारात् । रविचन्द्रयोगाद्योगः साधितस्तदान्य- ग्रह्योगाद्योगाः कुतो न भवन्तीति नोक्तमिति गुणः । ग्रहाणां स्पष्टीकरणे वैषम्याङ्गी- करणमपि भवतो गुणगणनार्थं प्रभवति । अथ यथा मुनिशास्त्रं तथैव मया स्वीक्रियत इति यदि ब्रूयात् प्रतिब्रूयादेनम् । किमर्थं तह लम्बनदृक्कर्माद्युक्तमिति । ननु मुनिभिरनुक्तं बीजमपि भवद्भिः स्वीक्रियते तद्वन्मदुक्तलम्बनसंस्करण- मधिमासार्थं स्वीक्रियतामिति चेत् । उच्यते । अस्मिन् काले बीजमेतावत् तस्मिन् काले चेदमिति नोक्तं तथापि बीजं संस्कार्यं ग्रहेष्वित्युक्तं मुनिभिः । ध्यानग्रहोपदेशाद्वीजं ज्ञात्वा सुदैवज्ञः । तत्संस्कृतग्रहेभ्यः कर्त्तव्यौ निर्णयादेशौ । इति । अत एव बीजं त्वयापि स्वीकृतम् । "मुनिप्रणीते मनुजैर्दृश्यते तदा तदेव संसाध्यं न कार्यं तथा सौरे । क्वचिदन्तरम् । सर्वमन्यथा ।” इति । 'तत्तद्गतिवशान्नित्यं यथा दृक्तुल्यतां ग्रहाः । प्रयान्ति प्रवक्ष्यामि स्फुटीकरणमादरात् ॥ इति । अत्र नित्यमिति स्फुटीकरण विशेषणं, तेन नित्यं स्फ़ुटीकरणं वक्ष्यामीति | तत्र स्फुटीकरणं द्विविधम् । एकं नित्यम् । अन्यन्नैमित्तिकञ्च । तत्र नियतनिमित्तो- पाधिना तुङ्गव्यवधानादिना क्रियमाणं नित्यमित्युच्यते । अनियतनिमित्तोपाधिना बीजवशेन क्रियमाणं नैमित्तिकम् | बीजाख्योऽपि कश्चन वायुविशेषोऽस्तीति कल्प्यते तत्संस्कारस्य दृष्टत्वात्, उच्चपातादिदेवतावत् । स तु स्वच्छन्दगतिश्चन्द्रकक्षा- प्रभृतिष्वष्टाष्वपि कक्षासु भिन्नभिन्नजवेन कदाचिद्वाति । कदाचिदेकस्यामेव कक्षायां वाति द्वयादिकक्षायां वा कदाचित् कक्षाष्टकेऽपि न वाति । यन्मते मुनीनामतीन्द्रियार्थ- विज्ञाने शक्तिरस्ति तन्मते बीजजवस्य त्रैविध्यं स्वीकार्यम् । कल्पकाले या वास्तवा ग्रहशीघ्रमन्दोच्चपातानां भगणाद्या गतिस्तस्याः संख्याया एकरूपत्वमेवापेक्षितम् । वस्तुनि द्वैरूप्यासंभवात् । तस्याः कल्पगतेरनुपातसिद्धा यैकदिनजा गतिः साप्येकरूपैव। मुनिभिः कस्मिंश्चित् कालविशेषे योपलब्धा मध्यमा गतिः सा वास्तवगतेर्न्यूनाधिका १. सू० सि० स्पष्टा० १४ श्लो० ।
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१३५
दिखावट