मध्यमाधिकारेऽधिक मासादिनिर्णयाध्यायः दृष्टा । कल्पादितो वास्तवगत्या साधितग्रहेषु कल्पादित एव वास्तवोपलब्धगत्यन्तरा- नुपातसिद्धान्तरसंस्कारेण हक्समत्वं बहुकालं दृष्टमिति प्रत्यक्षोपलब्धमध्यगत्यैव नूतनाः कल्पभगणा: शिष्याणां क्लेशो मा भूदिति कल्पिताः । एवं बोजजववशेनैव भगणानां भेदो जातः । इयं बीजगतिनियतोपाधावेवान्तर्गता । अत एव । युगे युगे महर्षीणां स्वयमेव विवस्वता | इति सूर्यसिद्धान्ते उक्तम् । किञ्च यन्मते अतीन्द्रियार्थविज्ञानं श्रुतित एव भवति तत्र तु ग्रहपातोच्चभगणानां संख्यानानात्वं वेदमूलकमिति वेदितव्यम् । श्रुतावपि कथमनेकधा पाठ इति । तत्रापीदमेवोत्तरं तत्तत्काल विशेषावच्छिन्नमध्यमगतिभिन्नत्वा- भिप्रायेण वेदे नोक्तम् । किमिति वास्तवा एकविधा एव भगणा नोक्ताः । कथमेवं विधा उक्ता इति वेदं कः पर्यनुयुज्यात् । तस्मादियं बीजगतिर्नियतोपाधावन्तर्गतेत्य- यमेको भेदः । अत एव स्मर्यंते यस्मिन् काले येन पक्षेण दृग्गणितैक्यं दृश्यते तस्मिन् काले स एव पक्षोऽङ्गीकार्य इति विषयव्यवस्था । अयं बीजगतिभेदो मनुष्यैः पार्थ- क्येन विवेक्तुं न पार्यते। कल्पादिकालादन्यस्माद्वा कालादुपचयापचयात्मकः कतिपय - काले नियतगतिद्वितीयो भेदः । यथा चाचार्यो वक्ष्यति 'खाभ्रखार्हताः कल्पयाताः समा इति । अयं पारम्पर्येणोपदेशान् मनुष्यैरपि ज्ञातुं शक्यते । ९१ सम्प्रति नवकलोनश्चन्द्रो दृक्सम इति तृतीयो भेदः यथा च गणेशदैवज्ञैरुक्तं “अङ्ककलिकोनाब्ज" इति । अयञ्च मनुष्यलक्ष्यः । “ध्यानग्रहोपदेशादिति पूर्व यदुक्तं तदनयोर्भेदयोविषयः । वेधस्य चित्तैका ग्रयेण यन्त्रद्वारा ग्रह [ण] ज्ञानं ध्यानग्रहशब्दे - नोच्यते । तस्मात् पारम्पर्योपदेश च्चेत्यर्थः । तस्मादयं बीजाख्यवायुविशेष: समस्तै- र्व्यस्तैर्वा गतिभेदैर्ग्रहमुच्चं पातं वा नक्षत्रं बहून्वा सर्वान् वा चालयति । नक्षत्रध्रुवक- स्यापि दृक्समत्वमिष्टम् । “गोलं बध्वा परीक्षेत विक्षेपं ध्रुवकं स्फुटम्” इति सूर्यसिद्धान्तोक्तेः । तस्माद्बीजसंस्करणमार्षशास्त्रमूलं लम्बनसंस्करणमधिमासनिर्णयार्थं दर्शान्ते न कार्यमार्षशास्त्रविरुद्धत्वादयुक्तत्वादद्य यावत्प्रामाणिकैरकृतत्वाच्चेत्यलम नया प्रसङ्गा- गततन्त्रान्त रदूषणकथा प्रस्तावनया ||६|| श्रीमत्कौङ्कणवासिकेशवसुतप्राप्तावबोधाद् बुधाद्- भट्टाचार्यसुताद्दिवाकर इति ख्याताज्जनि प्राप्तवान् ! यः कृष्णस्तनयेन तस्य रचिते सद्वासनावात्तिके सत्सिद्धान्तशिरोमणे: सुविषमो मध्याधिकारो गतः ॥ ॥ इति गणिताचार्यनृसिंहकृतौ मध्यमाधिकारः || १. सू० सि० मध्य० ८ श्लो० । ३. देशात्यर्थ: इगपु० । २. तदसयोविषय इ गपु० । ४. परं रक्षेत इगपु० ।
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१३६
दिखावट