मध्यमाधिकारेऽधिकमासादिनिर्णयाध्यायः ८५ माल्पता २९ |२०|४० । सा चै 6षष्टिगंतिवृश्चि कादित्र ये कंस्य । स ईदृशोल्पो कंमासो यदा चन्द्रमासस्यानल्पस्यान्तः पाती भवति तदैकस्मिन् मासे सङ्क्रमणद्वयमुपपद्यते । अत उक्तं क्षयः कार्तिकावित्रय इति । पूर्व किल भाद्रपदोऽसङ्क्रान्तिर्जातस्ततोऽर्कंगतेर धिकत्वान्मार्ग- शीर्षो द्विसङ्क्रान्तिः । ततः पुनगंतेरत्पत्वाच्चैत्रोऽप्यसङ्क्रान्तिर्भवति । ततो वर्षमध्येऽधिमासद्वय- मित्युपपन्नम् ॥ ६ ॥ वा० वा०—– अथाथिमासक्षयमासलक्षणमाह । असङ्क्रान्तिमास इति । अत्र गणितशास्त्रे दर्शावधि मासं चान्द्रमुशन्ति । तत्र यस्मिन् दर्शावधिके मासि मेषार्कसङ्क्रमणं स चैत्रः यस्मिन् वृषसङ्क्रमणं स वैशाख इति । एवमन्यत्रापि । यस्मिन् मासि क्रमप्राप्तं सङ्क्रमणं न भवति स एवाधिकमास इति । उक्तञ्च - मेषादिस्थे सवितरि यो यो मासः प्रपूर्यते चान्द्रः । चैत्राद्योऽसौ ज्ञेयः पूर्त्तिद्वित्वेऽधिमासोऽन्त्यः ॥ इति अयमधिमासः स्फुट: स्पष्टमानेनैव [ स्यान्न मध्यममानेन ] | अनेन वासनानभिज्ञतया स्वच्छन्दं प्रवर्तमानस्य स्वपक्षस्थापनाय च सम्मति- वाक्यानि कल्पयतश्चोलभट्टस्य मध्यममानेनाधिक इति मतं निरस्तम् । स्वल्पान्तरेणाङ्गीकृताष्टाद्रिभागमितसूर्यमन्दोच्चे मेषादिराशिस्थितेऽर्के साव- १. वर्तमानकाले नदिनानि । मे ३० ५५ वृ मि you as I w ३१ ३१ २४ ३७ ३२ ५६ क सि ३१ ३१ २८ i ५२ Is for rx तु २९ র ३० २९ ५७ म २९ २९ २९ २७ १५ ३ w एतन्निबन्धनश्लोकाश्च बापूदेवकृताः । त्रिंशत् पञ्चशरा देवा मेषेऽकें दिवसादिकम् । वृषे धराग्नयः सिद्धाः षट्शरा मिथुने क्रमात् ॥ धराग्नयः सप्तरामा रदाः कर्के धराग्नयः । गजाश्विनोऽक्षरामाश्च सिंहे भूवन्हयो द्वयम् || द्विशराश्च स्त्रियां त्रिंशद्गोऽश्विनः श्रुतयस्तुले । गोऽश्विनोऽद्रिशराः पक्षौ गोऽश्विनो भानि गोऽग्नयः ॥ कौ धनुषि गोदत्रास्तिथयो वन्यो मृगे । गोऽश्विनोऽब्धियमाः कुम्भे गोदस्रा गोऽब्धयस्तथा ॥ रामाब्धयो झषे त्रिंशद्रामदत्रा घराग्नयः । २. चैत्राघः स ज्ञेयः ग पु० । w ३. अयमंशोग पु० X. मी २९ ३० २३ ३१ चेक sast ४९ ४३ नास्ति ।
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१३०
दिखावट