पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणौ ग्रहगणिते वा० वा० – अत्राहर्गणानयने यो वारः समायाति स तु मध्यमवत्तंमानतिथा वुदये। अपेक्षितस्तु स्पष्टतिथिसूर्योदये । यतोऽयं लोकव्यवहारः स्पष्टेनैव प्रवर्तते स्पष्टस्यैव मुख्यत्वात् । यत्रोदयात् पञ्चचत्वारिशघटिका वर्तमानतिथिः पञ्चमी मध्यममानेन तस्यां मन्दफलघटिकास्त्रिशन्मिता: धनं क्रियन्ते तदा द्वितीयसूर्योदय- भिन्नत्वादहर्गंणः सैको विधेय इत्यादि शोभनमुक्तम् । एवं स्पष्टाधिमासवशेनाहर्गणो- पेक्षिते, जातस्तु मध्यममानेनातो युक्तं सैकनिरेकत्वमधिमासानामपि तथैव शुद्धावपि शेषं भाष्ये स्पष्टमुक्तम् ।। १५ ।। इदानीमधिमासस्य क्षयमासस्य च लक्षणमाह । असंक्रान्तिमासोऽधिमासः स्फुटं स्याद्' द्विसंक्रान्तिमासः क्षयाख्यः कदाचित् । क्षयः कार्तिकादित्रये नान्यतः स्यात् तदा वर्षमध्येऽधिमासद्वयञ्च च ॥ ६॥ वा० भा०- – यस्मिन् शशिमा सेऽकंसंक्रान्तिर्नास्ति सोऽधिमास इति प्रसिद्धम् । तथा यत्र मासे संक्रान्तिद्वयं भवति स क्षयमासो ज्ञेयः । यतः संक्रान्त्युपलक्षिता मासाः । अत एकस्मिन् मासे संक्रान्तिद्वये जाते सति मासयुगलं जातम् । स क्षयमासः कदाचित् कालान्तरे भवति । यदा भवति तदा कार्तिकादित्रय एव । तदा क्षयमासात् पूर्व मास यान्तर एकोऽधिमासोऽग्रतश्च मासत्रयान्तरितोऽन्यश्चासंक्रान्तिमासः स्यात् । अत्रोपपत्तिः । चन्द्रमासप्रमाणमेकोन त्रिंशत् सावनदिनान्येक त्रिंशत् घटिका: पञ्चाशत् पलानि २९|३१|५० । तथार्कमासस्त्रिशद्दिनानि षड्विंशतिर्घटिकाः सप्तदशपलानि ३०|२६|१७| एतावद्भदिवस र विर्मध्यमगत्या राशि गच्छति । यदाकंगतिरेक षष्टिः कलास्तदा सार्धेकोन त्रिशता दिने २६।३० राशि गच्छति । अतश्चान्द्रमासादल्पोऽर्कमासस्तदा स्यात् । एवं रविमासस्य पर १. अत्र ब्रह्मसिद्धान्ते । मेषादिस्थे सवितरि यो यो मासः प्रपूर्यते चान्द्रः । चैत्राद्यः स ज्ञेयः पूर्तिद्वित्वेऽधिमासोऽन्त्यः ॥ २. अत्राषंवचनानि । सर्वेषु मासेष्वधिमासकः स्यात् तुलादिषट्केऽपि च शून्यमासः । संसर्पकः सर्वभवो हि मासः सर्वेऽपि चैते खलु निन्द्यमासाः || एकस्मिन्नपि वर्षे चेद्वौ मासावधिमासकौ । पूर्वो मास: प्रशस्तः स्यादपरस्त्वधिमासकः || एकस्मिन्नपि वर्षे यत्रेदं लक्ष्म दृश्यते उभयोः । तत्रोत्तरोऽधिमासः स्फुटगत्या चायमर्केन्द्रोः ॥ वृ० वसि० सि० मध्य० ६२ इलो० ।