सामग्री पर जाएँ

पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारे प्रत्यब्दशुद्धधध्यायः दिनानि । एवं खण्ड त्रयेण साध्यमानेष्वधिदिनेषु दिनादिक्षयाहादिदिग् तल्लघ्वहर्गणोपयोगित्वेनावमघटीशोधनमिति प्रतिपादयिष्यते ||५|| ७३ अथ प्रकारान्तरेणाधिमासानयनमाह । द्विधाब्दा द्विरामैः ३२ खरा - ३० श्च भक्ताः फलैक्यं शिवघ्नाब्दयुक्तं विभक्तम् । •खरामैस्तु ते वाधिमासाश्च शेषं भवेच्छुद्धिरूनाहनाडीविहीनम् ।। ६ ।। वा० भा० - स्पष्टार्थम् । अत्रोपपत्तिः । प्रत्यब्दं यान्यधिमासशेषसम्बन्धिदिनानि ११ | ३ | ५२ | ३० । एभिः किलाब्दा गुर्व्यास्त्रशता ३० हृता अधिमासा भवन्ति । तत्र लाघवार्थमेभ्य एकादश विशोध्य शॆषम् ० । ३ । ५२ । ३० । खाष्टदै - ४८० गुंणितं जातमेकत्रिंशत् ३१ | अनेनाब्दा गुण्याः किल खाष्ट वेदै - ४८० र्भाज्या: । तत्राचार्येण रूपविभागाद्गुणकस्य खण्डद्वयं कृतम् । तत्राद्यं पञ्चदश द्वितीयं षोडश । उभयत्र हरः स एव । ततः खण्डाभ्यां हरे पृथगपवर्तिते जात आद्यो हरो द्वात्रिंशत् ३२ अर्न्यास्त्रशत् ३० । अतो द्वात्रिंशता त्रिशता च पृथग्गताब्दा भक्ताः । फलेक्यमेकादशगुणाब्दयुतं त्रिशद्भक्तं फलमधिमासाः । शेषं प्राग्वच्छुद्धिरित्युपपन्नम् ॥ ६ ॥ वा० वा० – अत्रापि प्रकारान्तरं द्विधाब्दा द्विरामैरिति । अत्राधिदिनानां ||११||३||५२ ||३०|| खण्डत्रयं कृतम् । एकम् ||११|| द्वितीयम् |||||२|| तृतीयम् ||२||१||५२||३०|| तत्र प्रथमे शिवघ्नाब्दाः । द्वितीयं त्रिशता सर्वाणितम् । तृतीयन्तु द्वात्रिंशतेति सर्वं निरवद्यम् ॥ ६ ॥ इदानीं दिनाद्यन विनाsध्यब्दाधिपानयनमाह | गताब्दाधिमासान्तरं द्विघ्नमाढ्यं क्षयाहर्गतैः सप्तभक्तावशिष्टम् । विशुद्धञ्च शुद्धः स वर्षाधिपो वा भवेत् सप्तभक्तावशिष्टोऽर्कपूर्वः ॥७॥ वा० भा० -- स्पष्टम् । अत्रोपपत्तिः । रव्यब्दान्ते योऽहर्गणस्तत्र यो वारः सोऽब्दाधिप: । प्रत्यब्दं सौरदिनसङ्ख्या षष्ट्यधिकं शतत्रयम् । तस्मिन् सप्ततष्टे त्रयोऽवशिष्यन्ते मासदिनेषु सप्ततष्टेषु द्वयमवशिष्यतेऽतो गताब्दास्त्रिगुणा गताधिमासा द्विगुणास्तदैक्यं सप्ततष्टं यावद्भवति तावदेव चैत्रात्रे: प्रागतीते तिथि- गणे सप्त तष्टेऽवशेषं स्यात् । तत् किल शुद्धितिथिषु योज्यम् । ततः पूर्वलब्धाः क्षयाहाः शोध्याः । तथा प्रत्यब्दं पञ्च पञ्च । अतोऽब्दाः पञ्चगुणाः शोध्या: । पूर्व त्रिगुणाः क्षेप्या: । अतो द्विगुणा शोध्या एव । द्विगुणाः किलाधिमासाश्च योज्याः । अतो लाघवार्थम धिमासोना अब्दा द्विगुणास्तैल- ब्धावमैश्च सप्ततष्टं : शुद्धिरूना सप्ततष्टा र व्यब्दान्ते वारो भवति । स एवाब्दप इत्युपपन्नम् ॥७॥ वा० वा० - इदानीं दिनाद्येन विनाप्यब्दपमाह गताब्दाधिमासान्तरमिति | सौरवर्षाणि षष्ट्यधिकशतत्रयगुणितानि सौरदिनानि भवन्ति । तेषु गताधिमासास्त्रिशद्गुणिता योज्यास्ते चान्द्राः भवन्ति । तेषु पूर्वानीत- क्षयाहाः पञ्चगुणाब्दयुक्ता: शोध्यास्ते सावना: सौरवर्षादौ भवन्ति । शुद्धिश्च योज्या | ततः सप्ततष्टाः कार्या: । स सौरवर्षादौ वारो भवति । तत्रैवं कृतम् । वर्षदिनानि ३६० ॥ अत्र भाष्यकारः । सि० - १०