पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणौ ग्रहगणिते वा० वा०—अत्रापि प्रकारान्तरमाह | दिनाद्यं त्रिनिघ्नमिति । दिनाद्यं त्रिगुणितं सत् क्षयाहासन्नं भवतीति दिनाद्यं त्रिनिघ्नमित्युक्तम् । अस्मिन् क्षयाहादेः शोधिते शेषम् ||१|| ||५१|| अत्र घटीस्थाने सुखार्थं द्वयमेव धृत्वा समा- त्रिंशदंशेन युगिति । इदमेव द्विच्युतं जातम् ||०||९|| चतुःशत्या सर्वाणितं जातं समा- भ्राभ्रवेदांशकोनमिति ॥ ३३ ॥ ७२ अथ प्रकारान्तरेणावमान्याह । स्वषष्ट्यंशहीनाब्दखाङ्गे न्दु-१६० भागः स्वपञ्चांशहीनाब्दयुग्वा क्षयाहाः ॥४॥ वा० भा० – स्वष्टम् । अत्रोपपत्ति: । एकस्मिन् रविवर्षेऽवमशेषमष्टचत्वारिंशद् घटिका: । तत् पञ्चांशोनं दिनम् । अतः पञ्चांशोना अब्दाः कृताः । अथ तदधस्तना अवयवाः ० १ ० १ २२ । ७ । ३० एते खान्दुभि - १६० र्गुणिता जाताः ० | ५९ । एतत् षष्टय शोनं रूपमतः स्पषष्टयंशोनाब्दाः खाङ्गेन्दुभिर्भक्ताः पञ्चांशोनाब्दयुता अवमाद्य भवतीत्युपपन्नम् ॥ ४ ॥ वा० वा०— प्रकारान्तरमाह । स्वषष्टयंशहीनादेति । अत्राष्टचत्वारिंशद् घटिकास्तत्पञ्चांशोनं दिनम् ||||||२२||७||३०|| खाङ्गेन्दुभिः सर्वाणितं जातम् ०।।५९।। इदन्तु स्वषष्ट्यंशोनदिनम् । अस्य खाङ्गेन्दुभाग इति सुगमम् ॥४॥ अथ गताधिमासांछुद्धि चाह | दिनादिक्षयाहादिदिग्घ्नाब्दयोगः खरामैर्हतः स्यु प्रयाताधिमासः । भवेच्छुद्धिसंज्ञं यदत्रावशिष्टं तद्नं सद्नाहनाडयादिकेन ।। ५ ।। वा० भा०~-अनन्तरानीते ये दिनादिक्षयाहाद्य तयोर्योगो दशघ्नेगंताब्दयुंतस्त्रशता हृतः फलं गताधिमासा भवन्ति । यदत्रावशिष्टं तच्छुद्धिसंज्ञम् । परं क्षयाहानांनाड्यादिकेन वर्जितं सत् । अत्रोपपत्तिः । अत्रैकवर्षसावनाना- ३६५ | १५ | ३० | २२ । ३० मवमानाञ्च ५ । ४८ । २२ । ७ । ३० योगतुल्या वर्षे चान्द्राहा भवन्ति ३०१ | ३ | ५२ । ३० | तथा वर्षे षष्ट्य- धिकशतत्रयं ३६० सौराहा: । एभिरूनाश्चान्द्राहाः प्रत्यब्द मधिमाससम्बन्धिन एकादश भवन्ति घटीत्रयञ्च सार्धानि द्विपञ्चाशत् पलानि ११ | ३ | ५२ | ३० । एवमेकस्मिन् वर्षे दिनादिक्ष- याहादियोगो दशाधिकोऽधिदिनानि भवन्ति । अधिदिनै स्त्रिशद्भिरधिमासो भवतीत्युपपन्नमधि- नासानयनम् । अयाधिशेषदिनान्यहगंणानयने शोष्यत्वाच्छुद्धिसंज्ञानि अत्राधिमासशेषतिथिभ्यो यदवमघटिकाः शोधितास्तत्कारणमग्रे कथयिष्यामः ॥५॥ वा० वा० – अथ गताधिमासाद्यमाह | दिनादिक्षयादीति । यथा सौरवर्षान्तः पाति सावनचान्द्राणामन्तरं क्षयाहास्तथैव सौरचान्द्राणा- मन्तरमधिदिनानि । तान्येकस्मिन् वर्षे ॥११ || ३ ||५२||३०|| वार्षिकं दिनाद्यम् ॥१५॥ ३०||२२||३०|| भसावनमिदम् । वार्षिकक्षयाहाद्यम् ||||४||२२||७||३०॥ अनयो- र्योगे जातं चान्द्रमिदम् ||१|| ३ ||५२ ||३०|| अत्र चेद्दश योज्यन्ते तदा वार्षिकाधि- १. ०११।१५ इति ग० पु० २. वार्षिकं क्षयाहाद्यम् ५१४८|२२|७|३० इति साधुः ।