सामग्री पर जाएँ

पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारे कक्षाध्याय: ७१ दधिकं गृह्यते तदृणमिति । प्रकृतेऽधिकत्वादृणम् । अतोऽनुपातः । यद्येकेन वर्षेणेदमृणं ०||११||३७||५२||३०|| तदेष्टवर्षैः किमिति यदायाति तत् क्षयाहेभ्यः शोध्यं “धनर्णयो - रन्तरमेव योगः” १ इति । इदमपि खण्डगुणनमेव | खण्डैर्गुणनस्य विद्यमानत्वात् । यथा- स्थितस्यैव धनखण्डानि कार्याणि | धनर्णखण्डानि वा । गुण्यस्त्वधोऽधो गुणखण्ड- तुल्यस्तैः खण्डकैः संगुणितो युतो वा ।' इति प्रकारस्य वेष्टोनयुक्तेन गुणेनेति प्रकारोऽन्तर्गत इति द्विधा भवेद्रूपवि- भाग 3 इत्युक्तम् । खण्डगुणनस्य द्वैविध्यमुक्तं रूपविभागस्थानविभागाभ्याञ्चेति । तस्मादनेन ४गुणेन ०||११||३७||५२||३०|| इष्टवर्षाणि धनगतानि गुणनीयानि यदायाति तच्छो ध्यत्वादृणम् । अत एव 'स्वर्णघाते क्षयः' इत्युच्यते । वस्तुतस्तु ऋणगुणको नाम विपरीतगुणकस्तस्मादृणं गुणनफलमुत्पद्यते । विपरीतस्य विपरीतापवर्त्तने क्रियमाणे "धनगतत्वमेव युक्तं, अभावाभावस्य भाववनियमात् । ऋणयोर्घातो धनं ऋणस्य शोध्यत्वे धनत्वमिति स्फुटम् ॥ तत्र शोध्यस्यास्य खण्डद्वयं कृतम् ||०||११|॥१५॥ द्वितीयं ०||||२२||५२||३०|| प्रथममभ्रभूपैः सर्वाणितं जाता दिनस्थाने त्रिशदत उक्तं खरा माहतैरिति । द्वितीयमपि तैरेवाभ्रभूपैः सर्वाणितं जातं दिनस्थाने ॥१॥१॥ अत उक्तं स्वषष्ट्यंशयुक्तानि वर्षाणीति | "योगोन्तरं तुल्यहरांशकानाम्' इति पूर्वद्वितीयफल- योग एव हरेण हृत इति सर्वं निरवद्यम् || ३ || ६ इदानों प्रकारान्तरेण क्षयाहानाह । दिनाद्यं त्रिनिघ्नं समाभ्राभ्रवेदां - ४०० शकोनं समात्रिंशदंशेन युग्वा । वा० भा० - - यत् प्रागानोतं दिनाचं तत् त्रिगुणं वर्षचतुःशतांशोनं वर्षंत्रददंशेन युतं वा क्षयाहा भवन्ति । 0 अत्रोपपत्तिः । अत्रेकवर्षे दिनाद्यम् । १५ । ३० । २२ । ३० । तथाऽवमाद्यम् ० | ४८ । २२ । ७ । ३० । दिनाद्ये त्रिगुणितेऽवमाद्याद्विशोधिते जातं शेषम् ० । १ । ५१ । इदं त्रिगुणे दिनाद्ये यदि क्षिप्यते तदाऽवमाद्यं भवति । इदं शेषं खखाकेँ - १२०० र्गुणितं जातं सप्तत्रिंशत् ३८ | अब्दाः सतत्रंशता गुण्याः खखार्केर्भक्कास्त्रिगुणे दिनाद्ये यदि क्षिप्यन्ते तदा गतावमानि भवन्ति । अत्र गुणके रूपत्रयं प्रक्षिप्य सुखार्थं चत्वारिंशद्गुणकः कृतः । रूपत्रयमृणं गुणकश्च ४० । ३ । आभ्यामब्दा गुण्याः | खखार्केर्भाज्याः । तत्र प्रथमगुणकश्चत्वारिंशतपतितो जातः १ | हरश्च ३० । द्वितीयो गुणक स्त्रिभिरपर्वततः १ | तत्र हरश्चतुःशती ४०० । अतो गताब्दाः पृथक् त्रिशता चतुःशत्या च हृताः प्रथमफलं त्रिगुण दिनाद्य धनं द्वितीयमृणमेवमवमाद्य भवतीत्युपपन्नम् । ३३ । १. बीजग० धनर्णसङ्कलने सूत्रम् | २. लीला० गुणने द्वि० सूत्रम् | ४. कर्णेने क पु० । ३. लीला० गुणने चतुथं सूत्रम् । ५. धने गतत्वमेव युक्तम् । इति गपु० । ६. लीलावत्यां भिन्न सङ्कलितव्यवकलितयोः सूत्रम् ।