पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणौ ग्रहगणिते इति त्रिंशत्पलानि । इदन्तु घटिकार्द्धमेव । तस्मान्निजाशीतिभागेन युक्तं समा घटिकाः भवन्ति । इदं षष्ट्या भक्तं दिनीकरणायेति सर्वं शोभनम् । ।।१३।। पुनः प्रकारान्तरेणाह | गताब्दा विभक्ताः समुद्रः ४ खसूर्यैः १२० खखाङ्गाङ्ककै ९६०० र्वा फलैक्यं दिनाद्यम् || २ || ७० वा० भा० – स्पष्टार्थम् । 9 अत्रोपपत्तिः । एकं दिनं पश्चदशघटिकाभिर्यावद्धियते तावच्चत्वारो लभ्यन्ते । याव- दधंघटिकया तावत् खसूर्या : १२० | यावदधस्तनेनावयवेन | ० । ० | २२ | ३० तावत् खखाङ्गाङ्ककाः ९६००। एवं प्रत्यन्दम् । अतो गताब्दा एभिविभक्ताः फलॅक्यं दिनाद्यं स्यादित्युपपन्नम् ॥ १३-२॥ वा० वा० – प्रकारान्तरेणाह गताब्दा इति । अत्र पूर्ववद्दिनाद्यानि खण्डत्रयाणि कृत्वा वारस्थरूपमेभिः पृथक् भजेत् । यल्ल- भ्यते त एव हराः । समानामिति योगे दिनाद्यं भवति । अयमर्थः । यद्यनेन खण्डेन रूपमितो हरस्तदाऽचार्यकल्पितरूपमितदिनेन किमिति सर्वमुत्पद्यते ॥२॥ इदानीं क्षयाहानाह । स्वपष्टवंशयुक्तानि वर्षाणि वर्षैः खरामाहतैः संयुतान्यभ्रभूपैः १६० । विभक्तानि तान्यत्र लब्धं विशुद्ध समाभ्यो गताभ्यो भवन्ति दयाहाः ||३|| वा० भा० -- स्पष्टम् । अत्रोपपत्तिः । यदि कल्पवर्षै: कल्पक्षयाहा लभ्यन्ते तदैकेन किमिति | फलमेकस्मिन् वर्षे क्षयाहाद्यम् ५।४८ | २२ | ७ | ३० । अस्मात् पञ्च विशोध्य शेषेणाब्दा गुणिता अवमाद्यं भवति । तत्र लाघवार्थं शेषं रूपाद्विशोध्योर्वरितमभ्रभूषः १६० सर्वाणितं जातम् ३१ ॥१॥ ततोऽनुपात: । यद्यभ्रभूषैवंषरेकत्रिंश दिनानि घटिकयाऽधिकानि लभ्यन्ते तदा गताब्दैः किमिति | अत्र स्वषष्ट्यंशयुक्तानि वर्षाणि खरामाहतवर्षंयुतानि एकत्रिंशता नाड्यधिकया गुणितानि भवन्ति । अत्राभ्रभूपै - १६० लंब्धफलेन गताब्दा अतो वर्जिताः कृताः । यतः प्रत्यब्दं षष्ठेऽवमे यन्न पर्यंते तद्गृहीत्वा कर्म कृतमिति सर्वमुपपन्नम् ॥ ३ ॥ वा० वा०–क्षयानाह स्वषष्ट्यंशयुक्तानि वर्षाणीति । १ तत्रैकवर्षेऽवमदिनानि ||५||४८||२२||७||३०|| अत्र कार्यान्तरवशेनैभ्यः पञ्च- दिनानि त्यक्त्वा यच्छेषं तदेव क्षयाहपदेनोच्यते । तस्मात् क्षयाहाः ॥०॥४८||२२||७|| ३०॥ अत्र दिनस्थाने रूपं गृहीत्वा यावन्ति वर्षाणि तावन्तः क्षयाहा इति जातम् । अत्रेदमधिकम् ॥०॥११||३७||५२||३०|| गृहीतमासीदिति शोध्यम् । यदेव शोध्यते तदेवास्वमिति व्यवह्रियते । न हि स्वरूपेणाङ्कानामृणत्वं धनत्वं वास्ति, किन्तु कार्या- न्तरवशात् यथास्थितेषु गृह्यमाणेषु यावत्तेभ्योऽल्पं गृह्यते तदेव धनमिति । याव- २. मानेयु इ० गपु० । १. तावत ग पु० ।