मध्यमाधिकारे भगणाध्यायः क्षिप्यते तत्तु तस्मिन्नेव पततीति तदिदं मतं समीचीनमेवेति चतुर्वेदाचार्येण स्वी कृतम् । भूभ्रमणवेगसञ्जातवायोर्भुवायुश्च प्रबल इति । ईदृशभूमिशक्तिकल्पना गौर वादेव वृद्धवेशिष्ठमतं वृद्धार्येण स्वीकृतम् । 'उदयास्तमयनिमित्तं नित्यं प्रवहेण वायुना क्षिप्तः । लङ्कासमपश्चिमगो भपञ्जरः सग्रहो भ्रमति । सौरे तु नक्षत्राणां ग्रहाणाञ्च पराशाभिमुखगमने प्रवह एव कारणं वक्तव्यम् । प्रवहाख्यो मरुत्त्वांस्तु स्वोच्चाभिमुखमीरयेत् । इत्यनेन “व्योम्नि यान्त्यनिलाहताः" इत्यादिना च प्रवहस्यैव कारणत्वाभि धानात् । तत्र यद्युच्येत प्रवहस्य सर्वास्वपि कक्षासु तुल्यैव प्रेरणेति तदा मिथो न्यूनाधिका पश्चिमगतिर्नोत्पद्यते । ग्रहाणां स्वशक्त्या पूर्वगत्यनङ्गीकारात् । अथ वक्तव्यं प्रवहप्रेरणा 3 तुल्यैव । यस्योपरिकक्षा तस्य बिम्बं लघु यस्याधस्तात्तस्य बृहदिति । लघु स्वल्पकालेन बृहन्महता कालेनापकृष्यते तस्मात् संज्ञाऽघटीति न्यूनाधिका गतिरिति तदप्ययुक्तम् । यस्योपरि कक्षा तस्य बिम्बं लध्विति नियमा भावात् । आग्रहशीलत्वमात्मनो गणितकर्मणाऽपि दूरीकरोत्वायुष्मान् । तस्माच्छ न्याद्यधः कक्षासु वायुप्रेरणा मन्दा मन्दतरेति स्वीकार्यं सौरतन्त्रदक्षैः । स्वशक्त्या पूर्वगतिवादिनो मते यथा नाडीमण्डलगत्या पूर्वतो न गच्छति किन्तु क्रान्तिवृत्तगत्या । तथैवात्र मते नाडीमण्डलगत्या पराशाभिमुखं न याति किन्तु तत्तत्क्षणावच्छिन्नाहो रात्रगत्या तत्तत्कक्षावच्छिन्नवाय्वंशेन " स स ग्रहो नीयत इति धुरात्रवृत्तक्रान्ति वृत्तयोरन्तररूपयाम्योत्तरगतौ च किञ्चिद्बाधकमस्ति । पूर्वं यस्मिन् प्रदेशे ग्रहस्त- स्मिन् ग्रहं जित्वा गतवत्यपि योऽन्यः क्रान्तिमण्डलप्रदेशो ग्रहोपरि भवति तस्मिन्नेव ग्रह इति न किञ्चिद्विरुद्धम् । मण्डलान्तरत्वेन समन्तात् क्रान्तिवृत्तस्य स्थितत्वात् एवं प्रवहवायुना पराशाभिमुखं नीयमाने यदोच्चदेवता पराशाभिमुखं नयति प्रशिथिल रश्मिना च ग्रहमाकर्षति तदा भूमेरासन्नो वक्री च भवति । नक्षत्र ( म ? ) तीत्य ग्रहस्याग्रतो गतत्वात् । यदा च शुक्रादेस्तात्कालिकस्पष्टगतिद्विकलातुल्यशनिगते. न्यूनाऽपि भवति तदाऽपि शनिकक्षाधः स्थितत्वमेव शुक्रादिकक्षाणां भवन्तो मन्यन्ते' तथैव नक्षत्रमतिक्रम्य गच्छतोऽपि ग्रहस्य नक्षत्रकक्षाधः स्थितत्वमेव वदाम इति सर्व निरवद्यम् । अस्मिन् मते [ 'ग्रहनक्षत्रबिम्बानां परिधिव्यासभिन्नत्वेऽपि गुरुत्वसाध्य स्वीकृत्य तत्तत्कक्षासु प्रवहप्रेरणावैषम्यं वदन्ति । अन्ये तु प्रवह] प्रेरणा सर्वकक्षास्वपि तुल्येति स्वीकृत्य ग्रहनक्षत्रबिम्बानां परिधिव्यासभिन्नत्वेऽपि कक्षाधः क्रमेण बिम्ब गुरुत्वं लोहपित्तलपिण्डयोरपि वाञ्छन्ति । नक्षत्रात्तथैव स्वक्त्यैव पराशाभिमुखं यातीत्यत्र पक्षेऽपि दोषाभावः । ब्रह्मगुप्तमतानुयायिनस्तु सर्वास्वपि कक्षासु प्रवह प्रेरणातुल्यत्वं बिम्बगुरुत्वतुल्यत्वञ्च स्वीकृत्य नक्षत्रापेक्षया ग्रहस्य नित्योदय बिलम्बे १० । १. आर्यभ० सि० ४ पा० १०इलो० । २. सू० सि० स्प० ३श्लो० । ३ प्रवाह क ख ग पु०. ४. वृहता काले ग पु० । ५. वारवेशेन गपु० । ७. लोकारत्वेन ग पु० । पिंड तूलपि० । ८. १०. ६. पुत्रवृत्त गपु० । अयमंशोग पु० नास्ति । बिलम्बो क ख विलं चो ग पु० ।
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/९२
दिखावट