पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणी ग्रहगणिते विरुद्धदिग्जनितग्रहगतिमन्तरेणानुपपद्यमानं स्वशक्त्या ग्रहस्य पूर्वगत कल्पयन्ती - त्याहुः । तस्मान्मतत्रयमपि युक्तियुक्तम् । ननु वस्तुनिर्विकल्पासंभवात् कथं परस्परविरुद्धस्य गतिकारणप्रतिपादक- शास्त्रस्य प्रामाण्यम् | उच्यते । ग्रहगति प्रतिपादकं शास्त्रं तावत्प्रमाणं गतेः प्रत्यक्षो- पलब्धत्वात् । तत्कारणं पुरुषबुद्धिप्रभवत्वाद [ तात्विकं भवतु ] तथाऽपि न कोऽपि दोषः फलतो दोषाभावात् । तत्त्वज्ञानोपयोगिन्या: जीवेश्वरादिविभाग- कल्पनाया अपि पुरुषबुद्धिप्रभवत्वेन विकल्पस्य दृष्टत्वात् । गतिर्नाम प्रदेशान्तरसञ्चरणं ग्रहाणां तच्च शुभाशुभव्यञ्जकं दिग्देशकालज्ञानोपयोगि च | काले दिशि देशे च कर्म विधीयत इति ग्रहस्य प्रदेशान्तरसञ्चारज्ञानं प्रधानं फलवत्वात् । गतिकारणकल्पना तु पुरुषबुद्धिप्रभवापि सौरादिशास्त्रेणानूद्यते गतिज्ञानोपयोगित्वात् फलवत्सन्निधावफलं तदङ्गमिति न्यायात् । यथा कल्पनया शिष्यजनमन: समाधानं स्यात्तथा क्रियमाणायामपि कल्पनायां न कश्चिद्दोषः । अत एव स्थूलवर्त्तुलदृषपरिग्रहादिना वर्णावगतिं कुर्वांणा बहवो दृश्यन्ते । ४८ तथा चाह ब्रह्मगुप्तभाष्यकारश्चतुर्वेदाचार्यः । यथा वैय्याकरणाः प्रकृतिप्रत्ययागमलोपविकारैरसत्यरूपैः सत्यं शब्दसाधुत्वं प्रतिपद्यन्ते । १ यथा" च भिषग्वरा उत्पलनालादिभिः शिरावेधादीन् प्रतिपद्यन्ते तथैव पलावलम्बमन्दशीघ्रप्रतिमण्डलादिभिर्ग्रहगतितत्त्वं भूमानादितत्त्वञ्च साम्वत्सराः प्रतिपद्यन्त इति मत्वा सन्तोष्टव्यमिति । इति भणणोपपत्तिः ॥१-६॥ अथ भभ्रमानाह "खखेषुवेदषड्गुणाकृतीभभूतभूमयः । शताहता १५८२२३६४५०००० भपश्चिमभ्रमा भवन्ति काहनि ||७|| बा० भा० - कानि ब्रह्मदिन एतावन्तो भानां पश्चिमभ्रमा भवन्ति । अत्रोपपत्तिर्गोले "समं भसूर्यावुदितौ ' - इत्यादिना कथिता व्याख्याता च ॥ ७॥ वा० वा०—भभ्रमानाह । खखेषुवेदषड्गुणा इति । अत्र कस्य ब्रह्मणोऽहः काहः । 'राजाहः सखिभ्यष्टच् ।' तस्मिन् काहे सप्तम्येकवचने वक्तव्ये यत्काहनीत्युक्तं वैभवेन तदयुक्तमिव प्रतिभाति । यद्वा कल्पप्रमाणकमहः काहः १. मानं क ख ग० पु० ३. अयमंशो ग पु० न दृश्यते । २. प्रमाण्यं गपु० | ४. कालो ग पु० । ६. उत्पलादिभि ग पु० । ५. तथा च गपु० । ७. अत्र श्रोपति: 'भूतवेदर सरामयमाश्विव्यालवाणशशिनोऽयुतनिघ्नाः १५८२२३६४५०००० ज्योतिषामपरया खलु गत्या गच्छतां विधिदिने परिवर्त्ता: सि० शे० १ अ० ३२ इलो० । सप्तम्योक ग पु० । ८.