पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारे भगणाध्यायः ४९ नामैकदेशे नामग्रहणम् । कल्पपदेन चतुर्युगसहस्रसङ्ख्योच्यते । तस्माद्यथा द्वयहनि तथा काहनीति न कश्चिद्दोषः । यद्वा समासान्तविधेरनित्यत्वात् 'काहनीत्युक्तमित्यादि- गतिश्चिन्त्या | भस्य क्रान्तिवृत्तकृतचिह्नस्य प्रवहवशेनैव परिवर्त्ती भभ्रमः । कियन्तः कल्पे भपरिवर्त्ताः कथं च तेषां ज्ञानं तत्राह । अत्रोपपत्तिः । समंसूर्यादितौ किलार्ध्या षष्ट्या घटीनामुदितं पुनर्भम् । रविस्तत: स्वोदयभुक्तिघातात् ४ खाभ्राष्टभू १८०० लब्धसमासुभिश्च । इति रविसावनाहे रविमध्यगतिकलायुक्तो भस्यैको भ्रमः । ततोऽनुपात: ५ यद्येकस्मिन् सावनेऽयं तदा कल्पकुदिनैः किमिति जाता: खखेषुवेदषड्गुणा इत्यादि ||७|| अथ सूर्याहाँश्चान्द्राहांचाह । विधिदिने दिनकृद्दिवसाः करे- न्द्रियशरेषुभ्रुवोर्बुदसङ्गुणाः १५५५२०००००००० । नवनवाङ्ककराभ्ररसेन्दवः प्रयुतसङ्गुणिता १६०२९९९०००००० विधुवासराः ॥ ८ ॥ वा० भा० - अत्रोपपत्तिः । रविवर्षाणि दिनीकृतानीति सुगमम् । चन्द्रार्कयोर्यावन्तः कल्पे योगास्तावन्तः किल शशिमासाः । ते तु योगा भगणान्तरतुल्याः स्युः । उभयोरपि प्राग्ग- मनात् । अतो भगणान्तरतुल्या: शशिमासा भवन्ति । ते त्रिशद्गुणा: शशिदिवसा भवन्ती- युपपन्नम् ॥ ८ ॥ अथ कुदिनान्याह । भूदिनानि शरवेदभूपगोसप्तसप्ततिथयोऽयुताहताः १५७७९१६४५०००० भभूमास्तु भगणैर्विवर्जिता यस्य तस्य कुदिनानि तानि वा ।। ९ ।। १. कहनि गपु० । २. सि० शि० गो० म० वा० ५ इलो० । ३ स्वादय ग पु० | ४. वाभ्रष्ट क ख ग पु० ५. नुपाद्य गपु० । चन्द्रभौमगुरुशनिसावनदिनानां निबन्धनश्लोको वापूदेवकृतौ । १५७९९३९६२१४७८ । खाभ्रखाभ्रशर भूगुणनागाध्य ब्धिनेत्रतिथयो विधुक्वहाः १५२४४८३१५०००० । व्यालशैलमनुनेत्रषण्नवत्र्यङ्कगोनगशरेन्दवः कुजे पञ्चवेदशरपावकाकृतिव्यद्रिधृत्यहिश रेन्दवो गुरोः १५८१८७२२२३५४५ । द्व्यभ्रभेभ गजगोगजाम्वरद्व्यष्टबाणशशिनः शनिक्वहा: १५८२०८९८८२७०२ । तथा ज्ञसितशीघ्रोच्चयोश्चन्द्रमन्दोच्चपातयोश्च । “भूपशून्यकुशराब्धिनवाङ्कद्व्य ब्धिषट् कतिथयो बुधशीघ्र १५६४२९९४५१०१६ । नागखेषुखरसाभ्रयुगाब्जद्वययाशुगागशरभू: सितशीघ्रं १५७५२१४०६०५०८ ।। द्वघयब्धिभूकृतयुगाग्निगजाब्ध्यत्यष्टिनागतिथयो विधुतुङ्गे १५८१७४८३४४१४२ । दन्तनागगजविश्वयुगाभ्राभ्राश्विदन्तिशरभू: शशिपाते १५८२००४१३८८३२ ॥ " सि० - ७