पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणौ ग्रहगणिते यावन्ताऽन्तरेणापकृष्यते तादृक् तस्य मान्दं शीघ्रं वा फलमुत्पद्यते । तत्र मन्दोच्च- वशेन मन्दफलं शीघ्रोच्चेन शीघ्रफलम् | भूगर्भावरतरस्थितयोच्चदेवतया वात- रश्मिभिनंद्धा यदा स्वाभिमुखमपकृष्यन्ते तदा ग्रहाः स्वकक्षामण्डलादूर्ध्वं दूरं गच्छन्ति । यदा च प्रशिथिलरश्मिभिराकृष्यन्ते तदा स्वीयकक्षामण्डलादधो गच्छन्ति । एवमुच्चदेवतया आकृष्टो ग्रहः प्रवहेन पराशाभिमुखं गच्छन्नपि यावन्नक्षत्रेण शीघ्र- तरगतिना अतिक्रम्यते तावतो तस्य स्पष्टा गतिः । वृद्धवशिष्ठमतानुसरता जिष्णुजेन नक्षत्राणां ग्रहाणाञ्च पश्चिमगतिः प्रवहवशेन स्वशक्तया च ग्रहाणां पूर्वेव गतिरित्युक्तम् । न यावनं पावनमस्ति यस्मादार्यं तथार्याः खलु नाद्रियन्ते । न गौरवात् सौरमतं श्रयन्ते वाशिष्ठमस्माल्लघुयुक्तियुक्तम् । अस्मन्मते" प्रवहवाय्वाधारं भचक्रं नियतगतिना प्रवहेनैव पराशाभिमुखं नीयते । यथा॰ तेन वायुना गगने नीयमानं तृणादि वायुप्रवाहदिश्येवान्तरिक्ष याति वाय्वाधारत्वाच्च भूमौ न पतति तद्वद् भचक्रमपीत्यर्थः । वायोरन्तरिक्षगत्वं तिर्यक् — चलनञ्च सुप्रसिद्धम् । नियतपराशाभिमुखगमनमात्रं कल्पनीयम् । तथा च वृद्धवशिष्ठ : ९- - पश्चिमदिग्गतिवायुप्रवहनिबद्धे १. ४. ४६ भपञ्जरे शीघ्रम् भ्रमति सखचरे सत्यपि खेटा गतितः प्रयान्ति पूर्वदशम् || इति यवनमते तूर्ध्वगस्य सजीवाकाशस्य मूर्तिमतोऽन्तरिक्षस्थितत्वं मूर्ति- मदाधारं विना अनुपपद्यमानं मूर्तिमदाधारं कल्पयति । १° तस्याप्याधारकल्पनाया- मनवस्थाभयादूर्ध्वगस्याकाशस्यान्तरिक्षस्थितत्वं शक्त्यैवेति मन्तव्यम् । तस्य नियत- पराशाभिमुखगमनशक्तिकल्पनेति शक्तिद्वयम् । १ १ अकृल्पकल्पना च भचक्राधारभूत स्याकाशस्य च काचमण्यादिवत् २ | स्वच्छत्वकल्पनाऽपि 13 गौरव मावहतीत्याद्या दोषाः वर्त्तन्त इति परिहार्यो यावनः पन्थाः । किञ्च प्रत्यक्षलक्ष्या नक्षत्रगतिस्तदाधारभूतानामाकाशानामिति कल्पनायां गौरव- मेव । आधाराणां योऽचलत्वलक्षणगुणः स एव ग्रहेष्वेव लाघवात् कल्पयितुं युज्यते । भूमेर्वा, ईदृशी शक्तिरस्ति चुम्बकवल्लोहमणिवन्नक्षत्रग्रहाः समन्तात्तिष्ठन्ति । ध्रुव- योर्चुम्बकवच्छक्तिर्वा यद्ग्रहनक्षत्रजातमन्तरिक्ष एव लोहमणिवदवतिष्ठेदिति शक्ति- कल्पनारुचिश्चेदेवमेव कल्प्यताम् । सजीवाकाशकल्पना जघन्या नितरां गौरवा- दित्यास्तां तावत् । आर्यभट्टन यद्भूभ्रमणमभ्युपगतं तत्र वराहोक्तोऽयं दोषः । यद्येवं १४ श्येनाद्या न खात् स्वनिलयमुपेयुः । भूमेस्तु वेगजनतेन समीरणेन केत्वादयोप्यपरदिग्गतयः सदास्युरिति । यदि तु भूमेराकर्षणशक्तिरीदृशी कल्प्यते "तस्माद्भूभागाच्छरादिकमुपरि- १ २. कलाम ग पु० । ३. दूर गच्छति ग पु० माद गपु० । अयमंशो ग पु० नावलोक्यते । ५. अस्मान्मते गपु० । ६. वाद्यधारं ग पु० ८. तीर्यक्र गपु० । ९. वृद्धवसिष्ठसि० १ अ० १२ श्लो० । क ख गपु० । १२. मन्यादि गपु० । १३. स्वक्छत्वं क ख गपू० । ७ यथानेन कपु० । १०. प्यधा गपुं० । ११. अक् १४. पञ्चसिद्धान्तिकायां पैतामहसिद्धान्ते १३ अ० ६ श्लो० । १५. यस्माद् गपु