मध्यमाधिकारे भगणाध्यायः ४५ स्पष्टमन्दस्पष्टयोः स्थलभिन्नत्वेन मेषादिचिह्नयोरपि 'वृत्तद्वयेप्यन्तरितत्वादनु - पातद्वयेन शीघ्रफलं साध्यते । यद्वा कक्षावृत्तपरिधौ मन्दनीचोच्चवृत्तमध्यं मध्य- गत्या भ्रमति । तत्रोच्चप्रदेशाद्ग्रहो मन्दकेन्द्रगत्या गच्छति । यत्रासौ ग्रहः कर्णसूत्रेण कक्षापरिधौ दृश्यते तत्रैव रविचन्द्रौ स्पष्टौ । भौमाद्यस्तु मन्दस्पष्टस्तत्रैव शीघ्रनीचो- ज्ववृत्तमध्ये भ्रमति । मन्दस्पष्टगत्या तत्परिधौ शीघ्रकेन्द्रगत्यैवोच्चप्रदेशाद्ग्रहो भ्रमति | नीचोच्चवृत्तं नामान्त्यफलज्याकृतं वृत्तम् । यवनास्तु मन्दकर्णव्यासार्धेन कृतं यत्कक्षावलयं "तत्परिधौ शीघ्रनीचोच्चवृत्तमध्यं मन्यन्ते । एवं मध्यमन्दस्पष्ट - स्पष्टानां॰ भेदः । इयं कल्पना गोले कियन्ति निबद्ध्यानीत्यत्र मन्दनीचोच्चवृत्तानि सप्त शैन्र्याणि पञ्च चेति वशिष्ठेन वदता कृतैवेति न मनुष्यबुद्धिप्रभवा । वृद्धार्यब्रह्म- गुप्ताभ्यामपि चोक्तैव । ननु नीचोच्चवृत्तमध्यानामचेतनानां प्रतिमण्डस्थोच्चप्रदेशाधिष्ठितराश्याद्यवय- वस्याचेतनस्य च कथं वलनमुच्यते । नैष दोषः । “चेतनग्रहसन्निधानादीश्वरे- च्छावशाद्वा । 'अचेतनाऽपि प्रकृतिः प्रगाढ़मात्मोपकण्ठे सकलं तनोति । अचेतनं सञ्चलतीव लोहं स्वयं यथा भ्रामकसन्निधाने ॥ यद्वा मन्दशीघ्रोच्चपातानामेव देवतात्वस्वीकाराददोषः आचार्यसम्मतोऽयं पक्षः । तत्तत्कालावच्छिन्न स्पष्टकक्षायामेव स्पष्टगत्या स्वच्छन्दगमनं वा । अथ चन्द्रः सर्वग्रहापेक्षया मन्दगतिरिति " नित्योदयतारतम्यदर्शनादनुमाय ग्रहाणां स्वशक्त्या पूर्वगमनं नास्ति । या तु पूर्वगतिः सा पश्चिमगत्यनुनिष्पन्नैव । भूः स्थिरैवेति सौरतन्त्रविदो वर्णयन्ति । यथा च ११ सूर्यसिद्धान्ते - १२ पश्चाद्व्रजन्तोऽतिजवान्नक्षत्रः सततं ग्रहाः । जीयमानास्तु लम्बन्ते तुल्यमेव स्वमार्गगाः ॥ प्राग्गतित्वमिति । शाकल्येऽपि – ‘इति पर्यटतां तेषां भागे भानि तु तान्हान् । अतीत्य तरसा साऽह्नि यत्प्रत्यक् प्राग्गतिश्च सा' ॥ इति स्पष्टगतावपि कारणमुच्चदेवताद्याः प्रदेश विशेषाश्रिता आकर्षका उपग्रह- संज्ञा वर्त्तन्त '3 इत्याहुः । उच्चो ह्याकर्षकविशेषोऽस्ति तेन स्वकक्षामण्डले भ्रमन् ग्रहो १. द्वयोप्य गपु० । ३. मध्या कख, मध्यं ग पु० च । ५. यत्परि गपु० । ७. स्पष्टानाभे ग पु० ९. न्नस्य स्पष्ट क ख पु० । ११. तथा च क ख ग पु० । १३. वर्तत गपु० । २. मध्यां क ख पु० । कलज्या गपु० । ४. ६. ८. मध्यं ग पु० । चैतत्र ग पु० । १०. तस्य गपु० । १२. सू० सि० मध्य० श्लो० सं० २५ २६ ।
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/९०
दिखावट