पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणौ ग्रहणणिते कक्षावृत्ते मन्दस्पष्टः । चन्द्रकक्षावलया 'बुधकक्षावलयं महत् । कक्षयोरूर्ध्वाधरान्तरेण बह्वन्तरितत्वात् । इदं कक्षावलयं शीघ्रकर्मणि मन्दकर्म्मणि चैकमेव त्रिज्ययोरेकत्वात् । मन्दकर्मणि तु द्वितीयमपि कक्षावलयं स्वीक्रियते । मन्दफलानयने कर्णानुपातस्याकृत- त्वात्। भूगर्भान्मध्यकर्णंतुल्यव्यासार्धेन यद्वृत्तमुत्पद्यते तत् किल द्वितीयं कक्षावलयम्। इदं प्रतिक्षणं चलं मन्दकर्णस्य चलत्वात् । अस्य कक्षावलयस्य मन्दप्रतिमण्ड- लस्य योगे सर्वदा मध्यमो ग्रहो भ्रमति । द्वयोः कक्षावलययोर्मेषादिचिह्नमेकत्रैव भवति वृत्तमध्यस्यैक्यात् । तस्माद्वितीयकक्षावृत्तमेषादेर्यस्मिन् राश्याद्यवयवे ग्रहस्तस्मिन्नेव प्रथमेsपि कक्षावलये भवितुर्महति । प्रतिमण्डलस्थमेषादिस्तु कक्षा मण्डस्थमेषादेरग्रतः पृष्ठतो वा भवति । तस्माद् द्वितीयकक्षावलयप्रतिमण्डलयोगस्थग्रहं प्रति 'भूगर्भान्नीय- मानं यत्सूत्रं तदवधिक " द्वितीयकक्षावृत्तस्थमेषा दिचिह्नाद्याः कलास्ता एव स्पष्टग्रह - लिप्ताः । यास्तु प्रतिमण्डस्थमेषादेर्गण्यन्ते ता एव मध्यकला : ६ कर्णानुपातं विनैव सिध्यन्ति । अत एव कल्प्यते द्वितीयकक्षावलयंमन्दप्रतिमण्डलयोग एव मध्यमो भ्रमति तत्रैव स्पष्टोऽप्यवलोक्यते । तद्वृत्तयोर्मेषादिचिह्नस्यैव भिन्नत्वेन मध्यस्पष्ट- योरंशाद्यवयवेनैव भेदः । स्थानभेदस्तु नास्त्येव । यतो यावती मन्दप्रतिमण्डले ग्रहो - च्चान्तरदोर्ज्या तावत्येव द्वितीयकक्षावलयेऽपि भवति । प्रथमकक्षावृत्तं मन्दकर्णानय- नार्थमुपयुज्यते । एवं यः सिद्धो मन्दस्पष्टः स शीघ्रप्रतिमण्डले तत्स्थमेषादेरनुलोमं भ्रमति । परन्तु मन्दस्पष्टगत्या प्रतिक्षणविलक्षणया तत्परिधौ गच्छतीति कल्प्यते । फलान्तरस्य दर्शनात् । यदि सूर्यचन्द्रयोरिवैकमेव फलं भविष्यत् तदा मन्दप्रतिमण्डल एव गमनमभविष्यत् । वस्तुतस्तु भौमाद्या मन्दस्पष्टगत्यैव वास्तवे शीघ्रप्रतिमण्डल - एव 'भ्रमन्ति । शररूपा दक्षिणोत्तरगतिरुच्चादिस्थितिरपि शीघ्रप्रतिमण्डलस्थस्यैव ग्रहस्य दृश्यत इति । तस्य वास्तवत्वमुच्यते । तस्य यन्मन्दप्रतिमण्डले भ्रमणं तदवा - स्तवमपि मन्दफला नयनार्थत्व नैव यथा कथञ्चित् कल्प्यते । तस्माद् भूगर्भाच्छीघ्रप्रतिमण्डस्थमन्दस्पष्टग्रहं प्रति 'नीयमानं कर्णसूत्रं यत्र त्रिज्याव्यासार्धोत्थ°वृत्ते कक्षाख्ये यत्र लगति तत्प्रदेशस्य कक्षास्थमेषादेर्यदन्तरं ताः स्पष्टग्रहकलाः । ११आसां शीघ्रप्रतिमण्डस्थमन्दस्पष्टकलानामन्तरं शीघ्रफलम् १२ । अत्र शीघ्रकर्णाने मन्दस्पष्टः | स्पष्टस्तु कर्णसूत्रसक्ते कक्षावृत्ते । शीघ्रफलानयने कर्णानु- नुपातस्य १३ दृष्टत्वात् । कक्षावलयप्रतिमण्डलयोर्ग्रहोच्चान्तरदोर्ज्या भिन्नत्वात् । १. दूध गपु० । ३. मडस्थे गपु० । ५. धिका क ख गु० पु० ७. माद्यो क ख ग पु० ९. नियमा गपु० | ११. आशां ख० १० । १३. पातस्पष्टत्वात् ग पु० । २. कृत्वा गपु० । ४. तीपमा० गपु० 1 ६. फलंग पु० । ८. भ्रमति क ख ग पु । १०. त्द्द क ख, स्वात्६वृ० ग पु० च | १२ शीघ्रकालमिति गपु० । १४. योर्यग्रहो गपु० ।