मध्यमाधिकारे कालमानाध्यायः ‘विमतिप्रज्ञा इत्यपि पाठः साधीयान् महोत्कर्षाधायकत्वात्' । अनेन विशेषणेन मुनि कृतशास्त्राद्विशेषः सूचितः । सद्युक्तिमित्यनेनार्यभटशास्त्राल्ललतोक्तियुक्तमिति, वराहादिशास्त्रादमलमिति, लल्ल- श्रीपति -प्रणीतशास्त्राद् बालावबोधमिति, ब्रह्मगुप्त- शास्त्रात् स्फुटमिति, पितामहादिसिद्धान्ताद्विशेष: सूचितः । एतावता विशेषणव्यूहे- नैतावद्विशेषजिज्ञासुरधिकारीति सूचितम् । एतद्ग्रन्थकरणफलं सुगणकप्रीति- रित्युक्तम् ॥ ३ ॥ '9 इवानों ग्रन्थस्यानारम्भकारणं विशिष्टमारम्भे कारणान्तरं पूर्वार्धनाभिधायोत्तरार्धेम सुजनगणकान् प्रार्थयन्नाह । कृता यद्यप्याद्य चतुरवचना ग्रन्थरचना तयारधेयं तदुतविशेषान् निगदितुम् । मया मध्ये मध्ये त इह हि यथास्थाननिहिता विलोक्यातः कृत्स्ना सुजनगणकैर्मत्कृतिरपि ॥ ४ ॥ वा० भा० आद्यैराचार्येर्यद्यपि चतुरवचना इलक्ष्णा ग्रन्थरचना कृता तथाऽपि मयाऽऽ- रब्धा । इदमः प्रस्तुतनिर्देशादियमीदृशी चतुरवचना अचतुरबचना वा । यद्यचतुरवचना तर्हि किमारम्भणीया तदर्थंमाह । तदुवित्तविशेषान् निगवितुमिति । यत् तैरुदितं तत् तदुषितं तस्माद्ये विशेषास्ते तदुदित विशेषाः । ये तैर्वोक्ता इत्यर्थः । अथ सुजनान् प्रत्याह । सुजनाइच ते गणकाच सुजमगण कास्तैरियं मस्कृतिरपि विलोक्या | अपि शब्दः समुच्चयार्थे । तेन हे सुजनगणका भवद्भि- ब्रह्मादीनां कृतयः किल विलोकिताः । इदानों मत्कृतिरपि मदुपरोधेन विलोक्या । यदि विलोक्या तहि कृत्स्ना समग्रा | किमिति | हि यस्मात् कारणात् ते विशेषा इहास्मिन् ग्रन्थे मया मध्ये मध्ये यथास्थानं यथाऽवसरं निहिंता निक्षिप्ताः | कृत्स्नग्रन्थविलोकनेन विना सर्वे न ज्ञायन्त इत्यर्थः ॥ ४ ॥ वा० वा०——नन्वेते विशेषाः सिद्धान्तचूडामणिप्रभृतिष्वपि वर्त्तन्ते कृतमनेन" ग्रन्थप्रणयनेनेत्यत आह [ कृता इति ] असङ्गतिप्रलापस्तु प्रेक्षावतामनवधेयो भवतीति यथास्थान एव विशेषा अभिहिता इत्याह — 'मया मध्ये मध्ये त इह हि यथास्थाननिहिता' इति विशेषावगतये मत्कृतिविलोक्यापि मदुपरोधेन कृत्स्नापि द्रष्टव्येति सुजनान् प्रार्थयते । १. महोव्रत्कषा ख पु० ३. व्यूहनैता...... ख पु० । ५. अलमित्यर्थः । २. द्युक्तित्येन 'ख पु० । ४. वर्तते ख पु० । ६. अनाहत इत्यर्थः ।
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५२
दिखावट