पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ सिद्धान्त शिरोमणौ ग्रहगणिते इति 'अग्निहोत्रहोमस्यैव सूर्योदये प्रवृत्तिर्दृश्यते । अग्निहोत्रं कुर्वाणा बहवो दृश्यन्ते इति कत्तृ बाहुल्याभिप्रायं ऋतव इति बहुवचनम् । कर्मभेदकप्रमाणानां शब्दान्त- राभ्यासा सन्निधिं गुणसंख्यानाम्नामभावात् प्रत्यभिज्ञातस्य कर्मण एकत्वात् । यद्वा क्रतुशब्देन पञ्चमहायज्ञा गृह्यन्ते शतक्रतुमुखा देवा दिवि स्वर्गे दीव्यन्ति तदंश - भागित्वात् । अंशिनः समुदयें ऽशानां क्रीडा समुचितैव । अथवा क्रत्वंशभागित्वात् क्रीडन्ति । यद्यपि श्रूयमाणा देवता कर्मस्वरूपनिष्पादयित्री कर्मणोऽङ्गभूता न प्रधा- नत्वं प्रतिपद्यते, तथापि कर्मणो जडत्वेन फलदातृत्वासंभवाच्चेतनाधिष्ठितस्य कर्मणः फलदातृत्वसंभवाच्चास्ति कर्माधिष्ठाता देवः प्रधानम् ' । तस्य प्रीतिसम्पादकं कर्मेति क्रीडा युक्तैव । इन्द्रादयोऽपि तदंशाः । अतो न किञ्चिद्विरुद्धम् ॥ १ ॥ इदानों पूर्वाचार्याणां प्रशंसनं सविनयमाह । कृती जयति जिष्णुजो गणकचक्रचूडामणि- र्जयन्ति ललितोक्तयः प्रथिततन्त्रसद्युक्तयः | वराहमिहिरादयः समवलोक्य येषां कृती: कृती भवति मादृशोऽप्यतनुतन्त्रबन्धेऽल्पधीः ॥ २ ॥ वा० भा० – स्पष्टार्थमिदम् ॥ २ ॥ वा० वा॰—गणिताचार्यप्रशंसापूर्वकं साधनभूयस्त्वे फलभूयस्त्वमिति न्याय- माश्रित्य मङ्गलान्तरमाचरति कृती, इति ॥ २ ॥ इदानीमात्मनः कर्तृत्वारम्भणीयस्य च सम्बन्धाथंमाह । कृत्वा चेतसि भक्तितो निजगुरोः पादारविन्दं ततो लब्ध्वा बोधलवं करोति सुमतिप्रज्ञासमुल्लासकम् । सद्वृत्तं ललितोक्तियुक्तममलं लीलावबोधं स्फुटं सत्सद्धान्तशिरोमणि सुगणकप्रीत्यै कृती भास्करः ॥ ३ ॥ वा० भा० इदमपि सुगमम् ॥ ३ ॥ वा० वा० – निजगुरुचरणारविन्दध्यानपूर्वकं तल्लब्धप्रसादश्चिकीर्षितं प्रति- जानीते कृत्वेति । १. अग्निहोम ख पु० । २. दृश्यति ख पुo | ४. ज्ञातश्च क ख ग पु० । ५. समुद अशाख पु० । ६. अभेदस्थले 'वेदाः प्रमाणम्' इति वत् समान लिङ्गकत्वमतन्त्रम् । ७. प्रचुरमङ्गलस्यैव प्रचुर समाप्ति प्रति प्रचुरविघ्नध्वंसं प्रति वा कारणत्वमितिसिद्धान्त- माश्रित्य वक्ति 'साधन भूयस्त्व' इति । ३. भ्यासां ख पु० ।