स त्वं सुरहितार्थाय मायायोगमुपागतः ।
वामनत्वं गतो विष्णो ! कुरु कल्याणमुत्तमम् ॥ ९ ॥
मायायोगमिति । दिव्यवैभवविष्णुतत्त्वसमाच्छादनेन प्राकृतमर्त्यादिभावप्रकाशिका शक्तिर्माया, तस्या योगः-सम्बन्धः, तमुपागतः, तमवष्टभ्येति यावत् । अवतारासाधारणसाधनभूतेयं शक्तिः । तथा च जगौ-'प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया' इति । वामनत्वं-वामनावतारमिति यावत् ॥ ९ ॥
एतस्मिन्नन्तरे राम ! काश्यपोऽग्नि समप्रभः ।
अदित्या सहितो राम ! दीप्यमान इवौजसा ॥ १० ॥
देवीसहायो भगवान् दिव्यं वर्षसहस्रकम् ।
व्रतं समाप्य, वरदं तुष्टाव मधुसूदनम् ॥ ११ ॥
एतस्मिन्नन्तर इति । एवं देवैर्वामनावतारप्रार्थनसमय इत्यर्थः । देवानां सिद्धसङ्कल्पत्वात् सङ्कल्पादेवावतारपरिकरसिद्धिरिति प्रदर्श्यते-काश्यप इत्यादि । स्वतः अग्निसमप्रभः, अदित्या सर्वधर्मसाधनशक्तिरूपया सहितः । अत एव ओजसा-अर्चिषा दीप्यमानाग्निरिव काश्यपप्रजापतिः देवीसहायः-स्वधर्मपत्न्यदितिसहितो भूत्वा दिव्यं वर्षसहस्रं विष्णुपुत्रप्राप्तयुद्देशेन व्रतं कृत्वा, तदन्ते व्रतं समाप्य, तदन्ते कृतसन्निधानं वरदं-वरदानोन्मुखं मधुसूदनं तुष्टाव ॥ ११ ॥
तपोमयं तपोराशिं तपोमूर्तिं तपात्मकम् ।
तपसा त्वां सुतप्तेन पश्यामि पुरुषोत्तमम् ॥ १२ ॥
स्तोत्रस्यैव प्रकारः-तपोमयमित्यादि । तपोमयं-तपःप्रचुरम्, तत्प्रकृतवचने मयट् 'इति मयट्, प्रकृतं-प्रस्तुतं-प्रचुरमिति यावत् । अत एव तपोराशिं-बहुतपस्समष्ट्यधिकरणम् । अत एव-तपोमूर्तिं-