एतत् पृष्ठम् परिष्कृतम् अस्ति
________________
त्रिपुरासंग्रहः पूर्वार्धै सप्तदशः पटलः । यथोचिताकारविशेषसुन्दरं मनोरमोर्वोरपि जङ्घयोर्युगम् । क्रमेण वृत्तं दधतीं पदाब्जयोर्विचित्ररत्नस्फुरिते च न ॥२५॥ समस्तशोभाविभवैकसुन्दरीं विभावसौन्दर्यसुधारसात्मिकाम् । निजैक्यतस्त्रैपुरदेवतां शुभां विचिन्त्य भावाहितसाधनैर्यजेत् ॥ २६ ॥
ततस्तु खाम्भोरुहचन्द्रमण्डले शिवात्मिकां निष्कलसूक्ष्मचेतनाम् । विचिन्तयेत् तारकसङ्क्रमत्विषं शतह्रदादामरुचिं तनीयसीम् ॥ २७ ॥ ततः समादाय कृतां सुषुम्नया निजैक्यदेव्या हृदयाम्बुजं नयेत् । सचेतनां तां प्रविभाव्य तु क्षणं मनः स्थिरं तत्प्रवणं विधाय तु ॥२८॥ स्वपङ्कजेन्दोरमृतस्य धारया परिस्रवन्त्या सितदुग्धरोचिषा ।
सुषुम्नया ब्रह्मपथामृताम्बुभिर्निजैक्यदेवीमभिषिच्य हर्षयेत् ॥ २९ ॥ यथोपचारैर्मनसामिपूज्य तां सुधाभिराप्लाव्य पुनस्तु चिन्तयेत् । षडन्तराधारसमण्डलाम्बुजैः शरीरमूर्ध्वङ्गमया सुषुम्नया ॥ ३० ॥
मूलाधारे चापि पायावुपस्थे नाभौ हृद्ये तालुमूले च मूर्ध्नि । वेदवाशार्काष्टियुग्मच्छदानि तान्यब्जानि ह्यन्तरा ब्रह्मनाड्याः ॥ ३१ ॥ अथात्र मूले नवकोटियोजनं प्रविस्तृतं चान्द्रमसं तु मण्डलम् । तमीषदाकुञ्च्य निबध्य चिन्तयेत् तदुत्थमजं धवलं कलादलम् ॥३२॥ अधोमुखं वक्रतनौ तदम्बुजं भवेजोरुन्मुखमायतं स्मितम् । विभाव्य मध्येऽस्य तु काममन्दिरं कदम्बगोलाकृतिलिङ्गमिन्दुभम् ॥ ३३ ॥ तं कुण्डलिन्यथ बिसाङ्कुरतन्तुगौरा सुप्ता त्रिधा समभिवेष्टय तथा प्रबोधम् । याति प्रबुद्धमदनालयसंभ्रमेण लिङ्गं तु वाग्भवमयं प्रथमं तदुक्तम् ॥ ३४ ॥ आमेयबिम्बमरुणं हृदयेऽत्र पद्मं बन्धूककान्ति दशपत्रमथास्य मध्ये । यत् पद्मरागरुचि मान्मथबीजलिङ्गं ध्यायेत् तु विश्वजनरञ्जनमोहनं तत् ॥ बिन्दुस्थानं ललाटे दिवसकरमयं मण्डलं पीतवर्णं
तत्राब्जं द्वादशारं दिनकररुचिरं पीतवर्णं तु लिङ्गम् ।
बीजं सारस्वतं तत् प्रभवति परमं वाङ्मयं यत्प्रभावा
दित्थं प्रोक्तं पुराणां त्रयमिदमिह यत् त्रैपुराख्या हि विद्या ॥ ३६ ॥ .. क. ख. पाठः. २. 'स्मृ' ग. पाठः. ३., 'म' ख. पाठा.