पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ (मन्त्रपादः

ब्रह्माण्डोदररत्नसौधजलधेर्मध्ये कदम्बोज्ज्वलं .

चोद्यानं मणिमण्डपं च विलसन्माणिक्यशोणद्युति ।

दिव्यं द्वारचतुष्टयस्थवटुकैस्तावद्भिरेवारुणैः

सर्वज्ञैररुणाम्बरादिविलसद्वेषैर्युतं चिन्तयेत् ॥ १४ ।

कुलपूर्वस्तु वटुकस्तथैवाकुलपूर्वकः । 

समयाख्यस्तृतीयः स्याञ्चतुर्थः साधकाह्रयः ॥ १५ ॥

चतुर्द्वारेष्विमे पूज्यास्तद्वत् क्षेत्रगणेश्वरौ।

स्वलङ्कृतौ तौ नित्यं तावुदग्दक्षिणतः स्थितौ ॥ १६ ॥ तन्मध्यकार्तस्वरसिंहपीठे शक्तिं प्रवालाङ्कुरभङ्गशोणाम् ।

तामष्टधावेष्टय गुणैरनन्तो ध्येयस्तदित्थं सितमम्बुजं च ॥१७॥
धर्मादयः स्युश्चतुरोऽस्य पादाः सिंहाननाः सत्त्वतमोरजांसि.।
कन्दं च नालं कमलं क्रमेण ध्येयं त्रितत्त्वं त्रिजगत्रिमूर्तिः ॥१८॥ पुर्यष्टकोर्ध्वच्छदमम्बुजं तदधश्छदाकारचतुर्युगं च ।
परिस्फुरत्केसरजालकीर्णा तत्कर्णिकां चोपरि मूलशक्तिम् ॥ १९ ॥
ध्येयं तथा वाग्भवमात्रबीजं बन्धूकरक्तं रुचिरं त्रिकोणम् ।।
हिरण्यगर्भ च हरिं च रुद्रं तथेश्वरं चैव सदाशिवं च ॥२०॥
ततस्तु तन्मध्यसुखोपविष्टां देवीं जपायावकरक्तकान्तिम् । निबद्धपद्मासनसौम्यमूर्ति नेत्रत्रयालङ्कृतवक्रपद्माम् ।। २१ ॥ जटाकिरीटाहितशीतरोचिषं पिशङ्गरक्ताभरणाम्बरस्रजम् ।
धृताक्षमालां वरदां च दक्षिणे सपुस्तकाभीतिकरां च वामतः ॥ २२॥ समग्रतारांधिपमण्डलाननां प्रतप्तजाम्बूनदरत्नकुण्डलाम् । गलप्रभारञ्जितनिष्कभूषणां सुजातवृत्तोन्नतपीवरस्तनीम् ।। २३॥ विचित्रहारोल्लसितस्तनांशुकां तथाङ्गुलीयैः कटकैश्च भूषिताम् । पिशङ्गकौशेयरुचारुणत्विषं हिरण्यकाञ्चीं दधतीं तदास्पदे ॥ २४ ॥

१. 'तौ नृत्यन्तावु' क. ग. पाठः. १. 'कु' ख. पाठः. ३. तिम्' ख. पाठ 7, 'राभितम स. पाठा.