पूर्वं राजर्षिशब्देन-तद्वाच्यसाधकेन तपसा अस्मदादिवत् द्योतितप्रभः-प्रकाशितवैभवः, अनु–पश्चात् ब्रह्मर्षिशब्दवाच्यत्वसाधकेन तपसा ब्रह्मर्षित्वं च प्राप्तः । यदेवं अतः बहुधा-बहुप्रकारेण राजर्षिप्रकारेण ब्रह्मर्षिप्रकारेण च विशिष्य पूज्योऽसि ॥ ५३ ॥
तदद्भुतमिदं ब्रह्मन् ! पवित्रं परमं मम ।
शुभक्षेत्रगतश्चाहं तव सन्दर्शनात् प्रभो ! ॥ ५४ ॥
इदमिति । त्वदागमनमित्यर्थः । हे प्रभो ! तव सन्दर्शनात् एतद्देहलब्धात् अहं शुभक्षेत्रगतः-ऐहिकामुष्मिकसकलशुभसाधनपुण्यदेहमेव प्राप्तवानस्मि; सफलजन्मास्मीति यावत् । "इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते" इति गीतिः ॥ ५४ ॥
ब्रूहि यत् प्रार्थितं तुभ्यं कार्यमागमनं प्रति ।
इच्छाम्यनुगृहीतोऽहं त्वदर्थपरिवृद्धये ॥ ५५ ॥
तुभ्यमिति षष्ठ्यर्थे चतुर्थी । ते यत्कार्यं प्रति आगमनं तत्ते प्रार्थितं कार्यं ब्रूहि अभिमतकार्यनियोगेनानुगृहीतोऽहं त्वदर्थपरिवृद्धये–त्वत्प्रयोजनपरिवृद्धिं कर्तुमिच्छामि । 'तुमर्थाच्च भाववचनात्' इति चतुर्थी ॥ ५५ ॥
कार्यस्य न विमर्शं च गन्तुमर्हसि कौशिक !
कर्ता चाहमशेषेण दैवतं हि भवान् मम ॥ ५६ ॥
विमर्शः-करिष्यति न वेति संशयः । उक्तविमर्शं विना नियोगहेतुः-दैवतं हीति ॥ ५६ ॥
मम चायमनुप्राप्तो महानभ्युदयो द्विज !
तवागमनजः कृत्स्नो धर्मश्चानुत्तमो मम ॥ ५७ ॥