उपायः को वधे तस्य राक्षसाधिपतेः सुराः !
यमहं तं समास्थाय निहन्यामृषिकण्टकम् ॥ २ ॥
यमुपायमास्थाय तमहं हन्यां स उपायः क इति योजना ॥ २ ॥
एवमुक्तास्सुरास्सर्वे प्रत्यूचुर्विष्णुमव्ययम् ।
मानुषीं तनुमास्थाय रावणं जहि संयुगे ॥ ३ ॥
स हि तेपे तपस्तीव्रं दीर्घकालमरिन्दम !
येन तुष्टोऽभवद्ब्रह्मा लोककृ[१]त्पूर्वपूर्वजः ॥ ४ ॥
पूर्वेषामपि पूर्वजो ब्रह्मेति । श्रीमच्चतुर्मुखरुद्रश्रीप्रजेशविष्ण्वादयो ये पूर्वे– [२]सर्वसंसारपूर्वभूताः कारणमूर्तयः सन्ति तेषामपि पूर्वजः-भगवान् हिरण्यगर्भ इति यावत् । श्रीमदादिब्रह्मण आन्तरज्ञानमूर्तित्वात् तस्य सर्वपूर्वजत्वं, "हिरण्यगर्भः समवर्तताग्रे" इत्यादेः ॥४॥
सन्तुष्टः प्रददौ तस्मै राक्षसाय वरं प्रभुः ।
नानाविधेभ्यो भूतेभ्यो भयं नान्यत्र मानुषात्
अवज्ञाताः पुरा तेन वरदाने हि मानवाः ।
एवं पितामहात्तास्मात् वरं प्राप्य स दर्पितः ॥ ६॥
उत्सादयति लोकांस्त्रीन् स्त्रियश्चाप्यपकर्षति ।
तस्मात्तस्य वधो दृष्टो मानुषेभ्यः परन्तप ! ॥ ७॥
इत्येतद्वचनं श्रुत्वा सुराणां विष्णुरात्मवान् ।
पितरं रोचयामास तदा दशरथं नृपम् ॥ ८ ॥
स चाप्यपुत्रो नृपतिस्तस्मिन् काले महाद्युतिः ।
अयजत् पुत्रियामिष्टिं पुत्रेप्सुररिसूदनः ॥ ९ ॥