पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६ सर्ग:]
163
जग्राह भगवान् विष्णुः सुराणां प्रार्थनामिमाम्

 अत्र स्वर्लोकमित्यस्य गतदोषकल्मषमिति विशेषणमस्ति । तत्र दोषा रागद्वेषमोहादयः । कल्मषं-पापं-स्वहृदि स्वात्मतयाऽवस्थितश्रीमदादिब्रह्मानुपासनादि ब्रह्महत्यान्तम् । एतयोः प्रसङ्गो यत्र गतः तादृश स्वर्लोकमिति । इदं च परस्वर्गाख्ये ब्रह्मलोक एव । समस्त सुरेन्द्रैसर्वैरपि यथाभगवद्दत्तस्वस्वदेशमवस्थितैर्गुप्तमिति चासङ्कोचेन ब्रह्मलोक एवास्ति । नापि च शक्रलोकप्रत्यागमनियोगश्च युज्यते । विष्णोर्भगवतो विराड्त्वतो वैराजब्रह्मलोकप्रत्यागतिरेवोपदिश्यते । राज्यमुपासित्वा ब्रह्मलोकं गमिष्यतीति स्पष्टत्वाच्च । तदविदितब्रह्मतत्वा मोहात्स्वकुलदैवब्रह्मापकर्षगवेषणपरमश्रद्धामिथ्यापकर्षं चापादयन्तो वदन्तु नाम । [१]भग(३४)मानः ॥ ३४ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे पञ्चदशः सर्गः

अथ षोडशः सर्गः

[पायसोत्पत्तिः, तत्प्राशनं च]

 ततो नारायणो विष्णुर्नियुक्तः सुरसत्तमैः ।
 जानन्नपि सुरानेवं श्लक्ष्णं वचनमब्रवीत् ॥ १ ॥

 एवं प्राप्तनियोग उक्तावतारोपायश्च भगवान्विष्णुः पुनस्तान् स्थैर्याय ब्रूते । तदप्यस्माभिरस्मत्कार्यनियुक्तस्य साहाय्यकमस्माभिः कर्तव्यमिति बुद्ध्या । ततो नारायण इत्यादि । नियुक्तः-कृतनियोगः । देवनियोगे दोष इत्याशङ्क्य नियुक्तः-प्रार्थित इति परिहरतीव कश्चित् । भदोषत्वमारादेव तस्योक्तमस्माभिः । जानन्नपीति-तमब्रुवन्नित्यादिपूर्व-सर्गोक्तवचनैरिति रोषः ॥ १ ॥


  1. वर्गमानः-ख.