राजमार्गः । सर्वपण्यशोभितो राजद्वारात् पुरः प्रवृत्तः । मुक्तपुष्पेत्यादिकं राजमार्गविशेषणम् ॥ ८ ॥
महाराष्ट्रविवर्धनः। महद्राष्ट्रं वर्धयति-धर्मन्यायबलेन पोषयतीत्यर्थः । पुरीमावासयामासेति । आवासत्वेनाकरोदित्यर्थः । 'तत्करोति' इति णिच् । दिवि देवपतिर्यथा पुरीं-अमरावत्याख्यां आवासयति तथेत्यर्थः ॥ ९ ॥
कवाटतोरणवतीं सुविभक्तान्तरापणाम् ।
सर्वयन्त्रायुधवी[३]मुपेतां सर्वशिल्पिभिः ॥ १० ॥
तोरणं बहिर्द्वारप्रदेशालङ्कारदारु[४]बन्धः । सुविभक्तः अन्तर:-परस्परान्तरालो येषां ते तथा, तादृशा आपणा यस्यां सा तथा । सर्वयन्त्रायुधवतीमिति । प्राकारोपरीति शेषः ॥ १० ॥
सूतमागधसंबाधां श्रीमतीमतुलप्रभाम् ।
उच्चाट्टालध्वजवतीं शतघ्नीशतसंकुलाम् ॥ ११ ॥
सूताः-स्तुतिपाठकाः । मागधाः-वंशावलीकीर्तकाः । अट्टालाः-उपरिगृहाः । उच्चेष्वट्टालप्रदेशेषु ध्वजयुक्ताम् । [५]शतं पुरुषान् हन्तीति शतघ्नी-अयोभारनिर्मितः प्राकारोपरि स्थापितो [६].मुसलविशेषः । 'अमनुष्यकर्तृके च' इति हन्तेष्टक् । उपधालोपादि ॥ ११ ॥