'मदस्त्रस्यामोघतस्तेन बन्धनमात्रं, चतुःपञ्चघटिकानन्तरं विमोक्षश्च भवतु' इति भगवतो ब्रह्मणो वरदानानुग्रहात् चतुःपञ्चघटिकानन्तरं ब्रह्मास्त्रेणोन्मुक्तमात्मानं-स्वं ज्ञात्वा [१]यदृच्छया कार्यान्तरप्रसङ्गेन रावणदर्शनापेक्षया यन्त्रिणः-बध्वा नेतृृन् तान् राक्षसान् प्रति वीरः-हन्तुं समर्थोऽपि मर्षयन्-क्षमां कुर्वन् ॥ ७६ ॥
ततो दग्ध्वा पुरीं लङ्कां ऋते सीतां तु मैथिलीम् ।
रामाय प्रियमाख्यातुं पुनरायान् महाकपिः ॥ ७७ ॥
ततः रावणदर्शनादिव्यापारानन्तरं मैथिलीं-सीतामृते तदवस्थानप्रदेशं विना 'अन्यारात्' इति पञ्चम्यभाव आर्षः । रामाय प्रियं-सीतादर्शनरूपं प्रियं आख्यातुं पुनः रामान्तिकं महाकपिरायात् ॥७७॥
सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम् ।
न्यवेदयदमेयात्मा दृष्टा सीतेति तत्वतः ॥ ७८ ॥
सोऽभिगम्य । 'वा ल्यपि' इत्यनुनासिकलोपाभावः । महात्मानं रामं प्रति प्रदक्षिणं-प्रगतो दक्षिणं-[२][३]प्रदक्षिणाख्योपचारं कृत्वा अमेयात्मा अपरिच्छेद्यबलबुध्यादिवैभवः सः, दृष्टा सीतेति तत्त्वतः-सार्व-विभक्तिकस्तसिः । तत्त्वं न्यवेदयदित्यर्थः । अत्र दर्शनपदप्रथम प्रयोगः हनुमदुक्तिचातुरी । प्रथमतो दिदृक्षितार्थपदग्रहेणादर्शनविषयक सन्देहोदयो मा भूदिति ॥ ७८ ॥
ततस्सुग्रीवसहितो गत्वा तीरं महोदधेः ।
समुद्रं क्षोभयामास शरैरादित्यसन्निभैः ॥ ७९ ॥