प्रविश्य तु महारण्यं रामो राजीवलोचनः ।
विरोधं राक्षसं हत्वा शरभङ्गं ददर्श ह ॥ ४१ ॥
प्रविश्येति ॥ महच्च तदरण्यं च महारण्यम् । राजीवं-पद्मम् । शरभङ्गाद्या ऋषयः । चापीत्यादि निपातमुच्चयः पद्यपूरकः क्वचित्क्वचित् । इहापि पद्यपूरकः ॥ ४१ ॥
सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा ।
अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम् ॥ ४२ ॥
खड्गं च परमप्रीतस्तूणी चाक्षयसायकौ ।
इध्मवाहननामाऽगस्त्यभ्राता । दिव्यं धनुरादिकं कार्याय प्रतिगृहाणेत्येवंरूपादगस्त्यवचनात् । ऐन्द्रं-[१]इन्द्रादगस्त्य आगतं शरासनम् । इदमिहानुसन्धेयम्-पूर्वं भार्गवं जित्वा ततः प्राप्तं यद्वैष्णवं धनुर्भागवता वरुणे न्यस्तम्, तदिन्द्रेण वरुणादाहृत्यागस्त्ये स्थापितं रामाय दातुम् । तथा खड्गादिकं च द्रष्टव्यम् । किमर्थमेवं कल्पना ? उच्यते-आरण्ये अगस्त्येनोच्यते-
इदं दिव्यं महच्चापं हेमरत्नाविभूषितम् ।
वैष्णवं पुरुषव्याघ्र निर्मितं विश्वकर्मणा ॥
अमोघः सूर्यसंकाशो ब्रह्मदत्तश्शरोत्तमः ।
दत्तो मम महेन्द्रेण तूणी चाक्षयसायकौ ॥
तद्धनुस्तौ च तूणीरौ शरं खड्गं च मानद ।
जयाय प्रतिगृह्णीष्व वज्रं वज्रघरो यथा ॥"
- ↑ 'दत्तो मम महेन्द्रेण' (अर. १३) इति कथितत्वात् । परशुरामागृहीत्व वरुणे न्यस्तं वैष्णवं धनुः-वरुणायाप्रमेयाय ददौ हस्ते महायशाः (वा. ७७-१) इति स्थितेः । तदेव धनुः वरुण इन्द्राय प्रादात् । इन्द्रश्चागस्यायेत्यवगम्यते ।