दानं च पादुकयो रामस्यावश्यकं किल ! यतः प्रत्यावृत्त्यनन्तरं सार्वभौमस्य ते दुर्लभे !! एवमादिदुर्योजनकठिनस्थले इदमेवास्य व्याख्यानं, त्यागो वा । तथाऽग्रेऽपि द्रष्टव्यम् ॥ ३७ ॥
स काममनवाप्यैव रामपादावुपस्पृशन् ॥ ३८ ॥
नन्दिग्रामेऽकरोद्राज्यं रामागमनकाङ्क्षया ।
स भरत इदानीं रामप्रतिनिवृत्तिरूपं काममनवाप्यैव रामपादावुपस्पृशन्-नमस्कुर्वन् पश्चान्नमस्कृत्य प्रतिनिवृत्तो नन्दिग्रामे स्थित्वा रामः प्रतिज्ञातसमयानन्तरं राज्यायागमिष्यतीति रामागमनगतयाऽऽकाङ्क्षया पादुकां पुरस्कृत्य राज्यमकरोत्-राज्यरक्षां कृतवान् ॥ ३८ ॥
गते तु भरते श्रीमान् सत्यसन्धो जितेन्द्रियः ॥ ३९ ॥
रामस्तु पुनरालक्ष्य नागरस्य जनस्य च ।
तत्रागमनमेकाग्रो दण्डकान् प्रविवेश ह ॥ ४० ॥
गत इत्यादि । श्रीमत्त्वादिविशिष्टो रामस्तु अत्यासत्त्या नागरस्य-मन्त्रिवृद्धादिपौरजनस्य सौभ्रात्रादिदिदृक्षया पुनर्भरतस्य च तत्र-चित्रकूटे आगमनं-[१]तत्संभावनां आलक्ष्य-पर्यालोच्य तेषां प्रतिनिवर्तनप्रयासाद्वरमित्तोऽपि किञ्चिद्दूरदेशगमनमिति सञ्चिन्त्य दण्डकारण्यानां रक्षश्चोरादिभूयिष्ठत्वात् एकाग्रः-सज्जो भूत्वा दण्डकान्-दण्डो नाम राजा तस्य निवासो जनपदः । 'तस्य निवासः' इत्यणो 'जनपदे लुप्' इति प्राग्दीव्यतीयाणो लुपि दण्डः । [२]जनपदस्तु शुक्रशापेन वनतां प्राप्तः, अतः कुत्सायां कन् । अवान्तरबहुवनत्वा इण्डकानिति । प्रविवेश ह । [३]हेत्यैतिध्ये प्रसिद्धौ ॥ ४० ॥