सामग्री पर जाएँ

पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५८
[स्कन्धः - १०
नारायणीये


त्वां धारयन् स खलु धन्यतमः प्रतस्थे
 सोऽयं त्वमीश! मम नाशय रोगवेगान् ॥ १० ॥

 शेषेणेति । भूरिभिः फणैर्वारितं वारि वर्षबिन्दवो येन तेन शेषेणानन्तेन फणामणिदीपितेनात एव स्वैरं प्रदर्शितः पन्था मार्गो यस्य ॥ १० ॥

इति कृष्णावतारवर्णनं कृष्णस्य गोकुलनयनवर्णनं च

अष्टात्रिंशं दशकम् ।


भवन्तमयमुद्वहन् यदुकुलोहो निस्सरन्
  ददर्श गगनोच्चलज्जलभरां कलिन्दात्मजाम् ।
अहो सलिलसञ्चयः स पुनरैन्द्रजालोदितो
 जलौघ इव तत्क्षणात् प्रपदमेयतामाययौं ॥ १ ॥

 भवन्तमिति । निस्सरन् गच्छन्। गगनोच्चलज्जलभरां वीचीजालैगगनतलबिलङ्घिजलौघपूर्णाम् ॥ १ ॥

प्रसुप्तपशुपालिकां निभृतमारूदद्वालिका-
 मपातकवाटिकां पशुपवाटिकामाविशन् ।
भवन्तमयमर्पयन् प्रसवतल्पके तत्पदाद्
 वहन् कपटकन्यकां स्वपुरमागतो वेगतः ॥ २ ॥

 प्रसुप्तेति । प्रसुप्ताः पशुपालिका यस्यां निभृतं यशोदासूतिगेहज्ञापनार्थं मन्दं मन्दमारुदती बालिका यस्याम्, अपावृता विघटिताः कवाटिका यस्यां, तां पशुपवाटिकां नन्दगोपगृहमाविशन्नयं वसुदेवो यशोदायाः प्रसवतल्पके भवन्तमर्पयन् तत्पदात् तस्मात् स्थानात् ॥ २ ॥

ततस्त्वदनुजारवक्षपितनिद्रवेगद्रव-
 द्भटोत्करनिवेदितमसबवार्तयैवार्तिमान् ।