सामग्री पर जाएँ

पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ३८]
१५७
कृष्णस्य गोकुलनयनवर्णनम् ।

मात्रा च नेत्रसलिलास्तुतगात्रवल्लया
 स्तोत्रैरभिष्टुतगुणः करुणालयस्त्वम् ।
प्राचीनजन्मयुगलं प्रतिबोध्य ताभ्यां
 मातुगिंरा दधिथ मानुषवालवेषम् ॥ ७ ॥

 मात्रेति । प्राचीनजन्मयुगलं प्राग् युवयोः पृश्निसुतपसोः पुत्रतया पृश्निगर्भाख्ययाहं जातः, पुनश्चादितिकाश्यपयोर्वामनाख्यथेति प्रतिबोध्य ॥ ७ ॥

त्वत्प्रेरिस्ततदनु नन्दतनूजया ते
 व्यत्यासमारचयितुं स हि शूरसुनुः ।
त्वां हस्तयोरधित चित्तविधार्यमार्यै-
 रम्भोरुहस्थकलहंसकिशोररम्यम् ॥ ८ ॥

 त्वादिति । कंसभ्रान्त्यर्थं मां यशोदाशयने न्यस्य तत्सुतां मन्मातुः शयने कुर्विति त्वया प्रेरितः सः आर्यैर्मुनिभिश्चित्तेन विधार्यं ध्येयम् ॥ ८ ॥

जाता तदा पशुपसद्मनि योगनिद्रा
 निद्राविमुद्रितमथाकृत []पौरलोकम् ।
त्वत्प्रेरणात् किमिह चित्रमचेतनैर्यद्
 द्वारैः स्वयं व्यघटि सङ्घटितैः सुगाढम् ॥ ९ ॥

 जातेति । तदा त्वत्प्रस्थानारम्भे सति योगनिद्रा माया भगवती पशुपस्य नन्दगोपस्य सद्मनि यशोदायां जातावतीर्णा सा त्वत्प्रेरणात् पौरलोकं मथुरापुरवासिनं जनं निद्राविमुद्रितं निश्चेष्टमकृत । किमिव चित्रमिति । अघटमानघटनापटीयस्यास्त्वत्प्रेरणाद् द्वारविघटनकरणादि न चित्रमित्यर्थः ॥ ९ ॥

शेषेण भूरिफणवारितवारिणाथ
 स्वैरं प्रदर्शितपथो माणदीपितेन ।


  1. 'सर्वलो' क. पाठः