भार्गवरामजयः तेन स्वतेजसः श्रीरामे समर्पणमपि रामावतारस्येतरावताराद् विशिष्टत्वमवगमयतीत्याह-
आरुन्धाने रुषान्धे[१] भृगुकुलतिलके संक्रमय्य स्वतेजो |
एवमवतारमुपपाद्यास्य लोकसंग्रहणार्थमङ्गीकृतं चरितं स्तौति
तातोक्त्या यातुकामो वनमनुजवधूसंयुतक्ष्चापधारः |
तातोक्त्येति । तातोक्त्यैव राज्यश्रियमपहाय जटाचीरधारी त्वं चित्रकूटे सुखमवसः। एवं गुरुवचनपरैर्भवितव्यमिति लोकान् ग्राहयितुमेतदिति भावः ॥ ५॥
श्रुत्वा पुत्रार्तिखिन्नं खलु भरतमुखात् स्वर्गयातं स्वतातं |
श्रुत्वेति । शारभङ्गीं शरभङ्गसम्बन्धिनीं सुगतिं मोक्षम् ॥ ६ ॥
नत्वागस्त्यं समस्ताशरनिकरसपत्राकृतिं तापसेभ्यः |
नत्वेति । समस्ताशरनिकरसपत्राकृतिं सर्वराक्षसवधं प्रत्यश्रौषीः प्रतिज्ञा- तवान् । गोदा गोदावरी । परिरमसि पुरा स्वैरं न्यवसः ॥ ७ ॥
- ↑ 'न्धे किल भृगुति' घ. पाठः.