पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४४
[स्कन्ध:- ९
नारायणीये

प्राप्तायाः शूर्पणख्या मदनचलधृतेरर्थनैर्निस्सहात्मा
 तां सौमित्रौ विसृज्य प्रवलतमरुषा तेन निर्लूननासाम् ।
दृष्टैवनां रुष्टचित्तां खरमभिपतितं दूषणं च त्रिमूर्धं
 व्याहिंसीराशरानप्य युतसमधिकांस्तत्क्षणादक्षतोष्मा ॥ ८ ॥

सोदर्याप्रोक्तवार्ताविवशदशमुखादिष्टमारीचमाया-
 सारङ्गं सारसाक्ष्या स्पृहितमनुगतः प्रावधी र्वाणघातम्
तन्मायाक्रन्दनिर्यापितभवदनुजां रावणस्तामहार्षीत्
 तेनार्तोऽपि त्वमन्तः किमपि मुदमधास्तद्वधोपायलाभात् ॥ ९॥

 सोदर्येति । तेन सीताविरहेण बहिरार्त इति सिध्यति, अन्तः किमपि मुदमधा इत्युक्तेः । अनेन च स्त्रीवचनं प्रमाणीकुर्वतामेवं दुःखमिति ग्राहयितुमेतदित्यपि सूचितम् ॥ ९॥

भूयस्तन्वीं विचिन्वन्नहृत दशमुखस्त्वद्वधूं मद्वधेने-
 त्युक्त्वा याते जटायौ दिवमथ सुहृदः प्रातनोः प्रेतकार्यम् ।
गृह्णानं तं कंबन्धं जघनिथ शबरीं प्रेक्ष्य पम्पातटे त्वं
 सम्माप्तो वातसूनुं भृशमुदितमनाः पाहि वातालयेश ! ॥ १० ॥

इति श्रीरामचरिते पम्पासरसि हनूमत्समागमवर्णनं

चतुत्रिंशं दशकम् ।


नीतः सुग्रीवमैत्रीं तदनु हनुमता दुन्दुभेः कायमुच्चैः
 क्षिप्त्वाङ्गुष्ठेन भूयो लुलविथ युगपत् पत्रिणा सप्त सालान् ।
हत्वा सुग्रीवघातोद्यतमतुलबलं वालिनं व्याजवृत्या
 वर्षावेलामनैषीर्विरहतरलितस्त्वं मतङ्गगाश्रमान्ते ॥ १ ॥
सुग्रीवेणानुजोक्त्या सभयमभियता[१] व्यूहितां वाहिनीं ता-
 मृक्षाणां वीक्ष्य दिक्षु द्रुतमथ दयितामार्गणायावनम्राम्


 * 'करणे हनः' (३०४:३७) इति णमुल् ।


  1. 'तो' को ग. पाठः.