अथ सृष्टिभेदानाह वैकुण्ठेति दशभिः-
वैकुण्ठ ! वर्धितबलोऽथ भवत्प्रसादा- |
वैकुण्ठेति। हे वैकुण्ठ ! विष्णो ! भवत्प्रसादाद् वर्धितबलो विद्याकर्मभ्यां प्राप्तैश्वर्यः सन्नम्भोजयोनिः अथ अनन्तरं जीवानां देहानसृजत् किल । तत्र देहाः स्थावरजङ्गमभेदाद् द्विविधाः । तदाह - स्थास्नूनीति । भूरुहमयाणि वृक्षप्रायाणि ओषधिलतावीरुद्रपाणि स्थावराणीत्यर्थः । तिरश्चां गवादीनां जातीः, तत्र गवादयो द्विशफाः, अश्वादय एकशफाः, श्वादयः पञ्चनखाः, काककङ्कगृध्रादयश्च, एतान् । देवान् मनुष्यांश्चासृजदित्यर्थः ॥ १ ॥
अथ स्रष्टुरबुद्धिकृतं तामससर्गमाह-
मिथ्याग्रहास्मिमतिरागविकोपभीति- |
मिथ्येति । आत्मनोऽन्यत्वेन प्रपञ्चस्यास्तित्वप्रतीतिर्मिथ्याग्रहः, शरीरादाबहंममाभिमानोऽस्मिमतिः, उपभोग्यबुद्ध्या धनादिष्विच्छा रागः, धनाद्यपहर्तरि क्रोधो विकोपः, उपभोग्यपदार्थानां व्ययनाशाघुत्प्रेक्षया जनितं भयं भीतिः इत्येवं पञ्चविधां पञ्चप्रकाराम् अज्ञानवृत्तिम् आत्माज्ञानकार्यं मिथ्याग्रहादिपञ्चाज्ञानकार्याणि सृष्ट्वेत्यर्थः । अनन्तरम् उद्दाम्नां प्रभूतानां तामसपदार्थानां केवलतमोगुणकार्या[१]णां पदार्थानां विधानेन सृष्ट्या दूनः क्षीणमानसः सन् स विशुद्ध्यै अज्ञाननिवृत्तये त्वदीयचरणस्मरणं तेने कृतवान् ॥ २ ॥
तावत् ससर्ज मनसा सनकं सनन्दं |
- ↑ 'णां तामसप' ख. पाठः