ते सृष्टिकर्माण तु तेन नियुज्यमाना- |
तावादति । यावदसौ त्वदीयचरणस्मरणेन शुद्धमना जातः, तावत् तस्मिन् काले सनकसनन्दसनातनसनत्कुमारान् मनसा ससर्ज । ते तु सनकादयः तेन ब्रझणा सृष्टिकर्मणि नियुज्यमानाः प्रेरिताः तस्य वाणीं नियोगरूपं वाक्यं न जगृहुः नाङ्गीकृतवन्तः । तत्र हेतुः - त्वत्पादभक्तिरसिका इति । त्वत्पादाम्बुजयोः या प्रेमलक्षणा भक्तिः, तस्यां रसिका इच्छावन्तः[१] शरीरादिबन्धप्रदं सर्गकर्म नैच्छन्नित्यर्थः ॥ ३ ॥
तावत् प्रकोपमुदितं प्रतिरुन्धतोऽस्य |
तावदिति । यदैवं पुत्रैः स्वानुशासनं प्रत्याख्यातं, तदेत्यर्थः । उदितम् उत्पन्नं प्रकोपं प्रकृष्टं कोपं प्रतिरुन्धतो घिया नियच्छतोऽप्यस्य ब्रह्मणः भ्रूमध्यतो भ्रुवोर्मध्याद् मृडोऽजनि तं कोपमेव शरीरत्वेन परिगृह्य श्रीशङ्करस्तत्रावतीर्ण इत्यर्थः । स च भवदेकदेशः विष्णोरेवांश:, “परः पुरुष एक इहास्य धत्ते स्थित्यादये हरिविरिञ्चहरेति संज्ञा: ।” (श्री. भा. स्क. १. अ. २. क्ष्लो. २३) इति वचनात् । स चादौ जातमात्र एव हा विरिञ्च ! मे नामानि पदानि स्थानानि च कुर्विति रुरोद किल, तेन रोदनेन स रु[२] द्र इति नाम प्राप्तवान् ॥ ४ ॥
एकादशाह्वयतया च विभिन्नरूपं |