पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ९]
६३
जगत्सृष्टिप्रकारवर्णनम् ।

 एवमनुगृह्य भगवति तिरोहिते वेधसः प्रवृत्तिमाह-

शतं कृततपास्ततः स खलु दिव्यसंवत्सरा-
 नवाप्य च तपोवलं मतिबलं च पूर्वाधिकम् ।
उदीक्ष्य किल कम्पितं पयसि पङ्कजं वायुना
 भवद्वलविजृम्भितः पवनपाथसी पीतवान् ॥ ९ ॥

 शतमिति । सः ब्रह्मा खलु शतं दिव्यसंवत्सरान् कृतं चीर्णे तपो येन स कृततपाः ततः पूर्वाधिकं तपोबलं मतिबलं विज्ञानबलं चावाप्य स पुनः पयस्येकार्णवे वायुना तात्कालिकेनात्युत्कटेन वातेन कम्पितं स्वाधिष्ठानं पङ्कजमुद्वीक्ष्य भवद्वलेन भवानेव बलं भवद्वलं तेन, ‘स वै बलं बलिनां चापरेषाम्' (श्री. भा. स्क. ७. अ. ८. क्ष्लो. ८.) इति प्रह्लादवचनात् । विजृम्भितो वर्धितः पवनपाथसी वायुं जलं च पीतवान् न्यपिबत् किल ॥ ९ ॥

तवैव कृपया पुनः सरसिजेन तेनैव स
 प्रकल्प्य भुवनत्रयीं प्रववृते प्रजानिर्मितौ ।
तथाविधकृपा[१]भरो गुरुमरुत्पुराधीश्वर !
 त्वमाशु परिपाहि मां गुरुदयोक्षितैरीक्षितैः ॥ १० ॥

 तवेति । स पुनस्तव कृपयैव तेनैव अतिविपुलेन सरसिजेन भुवनत्रयीं भूर्भुवः स्वरिति त्रीन् लोकान् । प्रकल्प्येति । अत्रातलवितलसुतलतलातलमहातलरसातलपातालानां सप्तानां भूर्लोकेऽन्तर्भावाद् महर्जनस्तपःसत्यमित्येतेषां स्वर्लोके चान्तर्भावात् त्रिलोकपक्षः कथ्यते । ततश्च तत् कमलं द्विसप्तधा विभज्य चतुर्दश लोकानकल्पयदित्यर्थः । अनन्तरं च प्रजानां शुभाशुभादृष्टतारतम्येन तत्तल्लोकयोग्यानां जीवानां निर्मितौ शरीरविरचनायां प्रववृते प्रवृत्तवान् । हे गुरुमरुत्पुराधीश्वर! तथाविधः सर्वजनविषयः कृपाभरः करुणातिशयो यस्य स त्वं गुरुदयोक्षितैः गुर्व्या घनीभूतया दयया उक्षितः आर्द्रीकृतैः ईक्षितैः कटाक्षैः आशु द्रुततरं मां पाहीति ॥ १० ॥

इति जगत्सृष्टिप्रकारवर्णनं नवमं दशकम् ।




  1. 'प' घ. पाठः,