पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६२
[स्कन्ध: - ३
नारायणीये

 एवं भगवद्रूपदर्शनानन्तरं विधेः प्रवृत्तिं वर्णयन् भगवन्तं प्रार्थयते---

श्रुतिप्रकरदर्शितप्रचुरवैभव ! श्रीपते !
 हरे ! जय जय प्रभो ! पदमुपैषि दिष्ट्या दृशोः ।
कुरुष्व घियमाशु मे भुवननिर्मिती कर्मठा-
 मिति द्रुहिणवर्णितस्वगुणबंहिमा पाहि माम् ॥ ७ ॥

 श्रुतीति । श्रुतिप्रकरैः उपनिषद्वाक्यनिकरैः दर्शितं लक्षणया प्रतिपादितं प्रचुरवैभवम् अतिशयेन महत्त्वं यस्य । अथवा वैभवं जगत्सृष्ट्यादिसामर्थ्य श्रुतिभिर्जगत्कारणत्वेन प्रतिपादितमित्यर्थः । श्रीपते! जगदनुग्राहक ! हरे! जगत्संहर्तः! त्वं जय उत्कर्षमाविष्कुरु | हर्षावेशसम्भ्रमाद् द्विरुक्तिः । हे विभो ! त्वं मम दृशोः पदं गोचरम् उपैषि प्राप्तोऽसि दिष्ट्या अहो मम सुखं जातम् । ममाशु भुवननिर्मितौ जगत्सृष्टौ कर्मठां समर्थां धियं कुरुष्व जगन्निर्माणेतिकर्तव्यताविषयं ज्ञानमनुगृहाणेत्यर्थः । इति द्रुहिणेन ब्रह्मणा वर्णितः संस्तुतः स्वगुणानाम् ऐश्वर्यादीनां बंहिमा बाहुल्यं यस्य स त्वं त्वद्गुणानेव वर्णयन्तं पाहि द्रुहिणस्येवात्मानं पुरः प्रदर्श्य कृतार्थीकुर्वित्यर्थः ॥ ७ ॥

 अथ स्तुवतोऽस्य भगवदनुग्रहप्रकारमाह-

लभस्व भुवनत्रयीरचनदक्षतामक्षतां
 गृहाण मदनुग्रहं कुरु तपश्च भूयो विधे ! ।
भवत्वखिलसाधनी मयि च भक्तिरत्युत्कटे-
 त्युदीर्य गि[१]रमादधा मुदितचेतसं वेधसम् ॥ ८ ॥

 लभस्वेति । अयि विधे! त्वम् अक्षताम् अनपायिनीं भुवनत्रयीरचनदक्षतां त्रैलोक्यनिर्माणसामर्थ्यं लभस्व प्राप्नुहि । मदनुग्रहं गृहाण, तव जगन्निर्माणविधौ यद्यदंनुगृह्णामि, तत्तत् परिगृह्णीष्वेत्यर्थः । भूयस्तपः कुरु । किञ्च तव मय्यखिलसाधनी यद्यदिच्छसि, तस्य तस्यानायासेन निष्पादयित्री अत्युत्कटा प्रकृष्टप्रेमलक्षणा भक्तिश्च भवत्विति गिरमुदीर्योक्त्तवा वेधसं ब्रह्माणं मुदितचेतसं सन्तुष्टमानसम् आदधाः कृतवानसि ॥ ८ ॥


  1. 'चि' मूलकोशपाठ:.