नो मृत्युव तदामृतं च समभून्नाहो न रात्रेः स्थिति- |
व्यक्तेति । प्राक् पुरा प्राकृतप्रक्षये ब्रह्मप्रलये व्यक्ताव्यक्तं स्थूलसूक्ष्मात्मकं कार्यकारणात्मकं वा इदं शरीरादिकं किञ्चिन्नाभवत् । अत्र हेतुमाह-मायायां त्वयि लयमागतायामिति । मायालये हेतुमाह - गुणसाम्यरुद्धविकृताविति । गुणाः सत्त्वरजस्तमांसि, तेषां साम्यावस्थया रुद्धाः स्तम्भिता विकृतयः कार्याणि यस्यां तादृश्यां, मायाया ब्रह्मणि लीनत्वान्मायाकार्य किञ्चिदपि तदा नासीदित्यर्थः । मृत्युः संसारः । अमृतं मोक्षः । तदा बन्धो मोक्षश्च न समभूत् । नाह्रो न रात्रेः स्थितिः मर्यादाविभागो नासीत् । तत्र तस्मिन् काले त्वमेको ब्रह्मैवाशिष्यथाः शिष्टोऽभूः | तवापि तदानीं न लीलाविग्रहपरिग्रह इत्याह - परानन्दप्रकाशात्मना सच्चिदानन्दस्वरूपेणेति । किल[१]शब्दोऽत्राम्या अवस्थायाः तद्वाग्रूपाम्नायान्तैकवेद्यतां[२] दर्शयति ॥ १ ॥
एतदेव प्रपञ्चायति
कालः कर्म गुणाक्ष्च जीवनिवहा विश्वं च कार्यं विभो ! |
काल इति । गुणः सत्त्वादिः, कालः तत्क्षोभकः, कर्म जीवादृष्टं, जीवानां निवहाः समूहाश्च, किं बहुना विश्वम् अखिलमपि कार्य मायाकार्यं हे विभो! सर्गस्थितिलयनिदानभूत ! त्वयि चिदात्मके स्वस्वरूपानुसन्धानरूपा लीला चिल्लीला तस्यां रतिम् इच्छाम् एयुपि प्राप्तवन्ति[३], योगनिद्रामारिप्सौ[४] सतीत्यर्थः । तदैतानि निर्लीनताम् अदर्शनताम् आययुः प्राप्तवन्ति । न चात्यन्तमसत्त्वं जातमित्याह –तेषामिति । तेषां कालकर्मादीनां शशविषाणवदत्यन्तास- त्त्वं नैव वदन्ति, श्रुतयस्तद्रष्टार इति वा शेषः । तत्रोपपत्तिमाह - शक्त्यात्मनेति । अयि भोः ! भगवन् ! त्वयि शक्त्यात्मना कारणरूपेण तिष्ठतां स्थितानामित्य-