पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६
[स्कन्धः - २
नारायणीये

 तस्य चेति । तस्य ब्रह्माण्डस्य च सप्तावरणानि सन्ति । तान्या[१]ह- क्षिती[२]ति । क्षितिपयोमहोनिलद्यावः पञ्चभूतानि, महत्[३] महत्तत्त्वं, प्रकृतिर्माया, आसां सप्तकमेव आवृतयः आवरणानि । अत्र महच्छब्दोऽहन्तत्त्वस्याप्युपलक्षकः । तेन पञ्चभूतानि महदहङ्कारौ च सप्तावरणानि । प्रकृत्यावरणं त्वष्टमं व्यापकमेव । एता आवृतीस्तत्तदात्मकतया[४] तत्तदावरणमेवात्मा मूर्तिर्यस्य स तत्तदात्मकः, तत्त[५]या विशन्नि[६]ति तत्तदाबरणेषु तत्तदात्मना सूक्ष्मशरीरेण[७] प्रवि[८]शन्नित्यर्थः । सुखी तत्र तत्र निरतिशयं सुखमनुभवन् हे विभो ! विश्वव्यापिन् ! ते अनावृतं पदं ब्रह्मपदं याति । एवमावरणान्यतिक्रम्यान्ते प्राणेन्द्रियाणि स्वस्वकारणे विलाप्य तत आवरणस्यापि विलयादनावृतं ब्रह्ममात्रमेव भवतीत्यर्थः ॥ १४ ॥

 एवं मुक्तः पुनर्न संसारीत्याह-

अर्चिरादिगतिमीदृशीं व्रजन् विच्युतिं न भजते जगत्पते ! ।
सञ्चिदात्मक ! भवद्गुणोदयानुच्चरन्तमनिलेश ! पाहि माम् ॥ १५ ॥

 अचिरादीति । ईदृशीमर्चिरादिगतिं व्रजन् जीवः विच्युतिं पुनरावृत्तिं न भजते । अत्र हेतुगर्मे सम्बोधनं- सच्चिदात्मकेति । हे अनिलेश ! श्रीगुरुवायुपुरनाथ ! जगत्पते! भवगुणोदयान् त्वगुणोत्कर्षान् उच्चरन्तं यथाशक्ति स्तुवन्तं मां पाहि आधिव्याधिसङ्कटेभ्यो रक्ष[९] ॥ १५ ॥

इति अष्टाङ्गयोगवर्णनं योगसिद्धिवर्णनं च

चतुर्थे दशकं सपञ्चकम् ।

 एवं शुद्धसत्त्वमयमूर्युपासनां फलपर्यन्तामुपपाद्य तस्यामनधिकारिणां विश्वमूर्तीशोपासनां दर्शयिष्यन्नादौ भगवतः स्थूलशरीरस्योत्पत्त्युपपत्तये तस्य प्रागभावं दर्शयति -

व्यक्ताव्यक्तमिदं न किञ्चिदभवत् प्राक् प्राकृतप्रक्षये
 मायायां गुणसाम्यरुद्धविकृतौ त्वय्यागतायां लयम् ।


  1. 'नाह' क. ग. पाठः,
  2. 'तिप' क. ग. पाठः.
  3. 'हान्' ख. पाठ:.
  4. 'या विशन् त' ख पाठः.
  5. 'द्भावेन वि' क. ग. पाठः.’त्तया प्रवि' ख. पाठः.
  6. 'नू त' ख. पाठः.
  7. 'ण सह प्र' क. ग. पाठः.
  8. 'ष्ट: सन्नि' क. ग. पाठः.
  9. 'क्षेत्यर्थः । ' क. पाठः.