र्थ: । ननु लीनाश्चेदसन्त एवेत्याशङ्कय विपक्षे बाधकमाह - नो चेदिति । यद्येषामसत्त्वं, तर्हि गगनकुसुमसदृशानामेतेषां भूयः प्रलयावसाने सम्भवो न
भवेत् । तच्चनिष्टम् । अतस्तेषां कारणात्मना सत्त्वमङ्गीकर्तव्यमित्यर्थः ॥ २ ॥
सम्प्रति भगवतो विराणमूर्तेरुत्पत्तिप्रकारं दर्शयत्येवमित्यष्टभिः-
एवञ्च द्विपरार्धकालविगतावीक्षां सिसृक्षात्मिकां |
एवमिति । ए[१]वमुक्तप्रकारेण ब्रह्ममात्रावशेषेण द्विपरार्धकालस्य विगतौ अवसाने सति । अत्र चकारो द्विपरार्धपरिमितकाल एव ब्रह्मणः परमायुरिति दर्शयति। अयं भावः – अस्मादृशां [२]संवत्सरो देवानामहोरात्र: "मासेन स्यादहोरात्रः पैत्रो वर्षेण दैवत" इति वचनात् सर्वे ज्ञेयम् । प्राकृतप्रलयस्यापि ब्रह्मायुः परिमितद्विपरार्धकालतुल्यपरिमाणत्वमनुमेयमिति । तादृशकालविगमे सति त्वयि ब्रह्मणि सिसृक्षात्मिकामीक्षां बिभ्रागगे[३] इति । ईक्षां सिसृक्षाचिन्तनादिशब्दवाच्यां मायाप्रेरणरूपां क्रियामिव बिभ्राणे अङ्गीकृतवति सति माया स्वयं चुक्षुभे चलिता ब्रह्मणः पृथ[४]गिव प्रकाशं प्राप्ता स्थिता । किमर्थ, त्रिभुवनीभावाय, प्रागतथाविधापि पुनस्त्रैलोक्यरूपेण विवर्तितुमित्यर्थः । मायातः एवं क्षुब्धाया मायायाः सकाशात् । खल्वित्यवधारणे । कालशक्तिः ईश्वरस्य कालाख्या शक्तिः । अखिलानां प्राक्तनजीवानामित्यर्थाद्,[५] अदृष्टं सुकृतदुष्कृतरूपं स्वभावोऽपि च प्रादुर्भूयास्या गुणान् रजस्तमःसत्त्वाख्यान् विकास्य साम्यावस्थामपास्य कार्योन्मुखान् कृत्वा तस्या मायायाः सहायक्रियां त्रिभुवनीभावापत्तये परिकर्म विदधुश्चक्रुः ॥ ३ ॥
- ↑ ‘वं ब्र’ ख. पाठः.
- ↑ 'संवत्सरैः ? वासरैः षष्टयुत्तरशतत्रयसङ्खयापरिमितैः देवानामहोरात्र उच्यते । तादृशाहोरात्रैर्दिव्यसंवत्सरः । तैर्द्वादशसहस्रैश्चतुर्युगं द्विसहस्रैश्चतुर्युगैर्ब्रह्मणोऽहोरात्रः । तादृशाहोरात्रैर्ब्रह्मणः संवत्सरः । पञ्चाशद्भिः संवत्सरैर्ब्रह्मण आयुषोऽर्द्धे परार्द्धमुच्यते । तद्द्वितयं द्विपरार्द्धमिति । त्वयि' क. पाठ:.
- ↑ 'णे अ' ख. पाठः.
- ↑ 'थग्भूय स्थि' ख. पाठ:.
- ↑ 'नामनुशयितानामह' क. पाठः.